________________
( ५५ )
संपत्तिः फलातिरेको वा भृशत्वं, प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यं। तद्विशिष्टार्थवृत्तेर्धातोर्व्य
जनादेरेकस्वराद् यङ् वा स्यात् । पापच्यते । व्यञ्जनादेरिति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् ॥६॥
क्रियान्तराव्यवधानेन-विरोधिमिमगमनादिभिरविरोधिभिस्तूच्छवासादिभिर्भवत्येव । साकल्येन संपत्तिः-सामस्त्येन ढौकनमित्यर्थः । फलातिरेको वा-फलसमाप्तावपि क्रियानुपरतिः। प्रधान क्रियायाःपचौ विल्केदः प्रधानक्रिया तां कश्चित्समाप्य क्रियान्तरामनारभ्य पुनस्तामेव क्रियामारभते, तस्याः पुनर्पुनर्भाव आभीक्षप्यम् भृशं पुनर्पुनर्वा पचति-पापच्यते । लुनीहि-वाग्रहणाद् “भृशाऽऽभीक्ष्ण्ये" ।५।४।२२। इति पञ्चमी भवत्येव । लुनीहीत्यत्र भृशाभीक्ष्ये द्विवचनम् । ननु भशाभीक्ष्ण्ये यङपि विधीयते न तु तत्र द्विवचनम् इह तु द्विवचनमित्यत्र को हेतुरिति चेत्सत्यं यङ् स्वयमेव भृशाभीक्ष्ण्ये द्योत तु समर्थः इति तदभिव्यक्तये द्विर्वचनं नापेक्षते । हिस्वादयस्तु द्विवचनमपेक्षन्ते इति "भृशाऽऽभीक्ष्ण्ये." ७।४।७४। इति द्विवचनम्। 'आभीक्ष्ण्ययङन्तस्याभीक्ष्ण्ये हिर्वचनं न भवति उक्तार्थत्वात् । यदातु भृशार्थयङन्तादाभीक्ष्ण्यविवक्षा तदा द्विर्वचनं भवत्येव पापच्यते पापच्यते इति । न च पञ्चमी "भृशाभीक्ष्ण्ये०" ।५।४।४२। इति विधानसामर्थ्यात् एव भविष्यतीति एतदर्थं वाग्रहणमनर्थकमिति वाच्यं स्वराद्यनेक स्वरेभ्यः तस्याश्चरितार्थत्वात् । ननु यदा पचति पचनविशिष्टो भशार्थो धात्वर्थस्तदा वाक्यार्थमपि वाग्रहणं तर्हि वाक्यमपि कथं नोदाहृतम् ? सत्यम् यदा पचतिना पाक: भृशशब्देन तु भशार्थस्तदा वाक्यं सिद्धमिति वाक्यमपि नोदाहृतम् पाक्षिकप्राप्तेरप्रधानत्वात् ॥६॥
अतिसूत्रिमूत्रिसूच्यशूर्गोः ।३।४।१०।
भृशं पुनपुनर्वाऽति--अटाट्यते । ऋ प्रापणे च' ऋक् गतो इति, ऋच्छति ताभ्यां यङन्तादारार्यते । “क्ययङा.” ४।३।१० इति गुणे “अयि र:” ४।१।६। यवर्जनाद् रो द्वित्वम् । सूत्रण्–सोसूत्र्यते, मूत्रण्–मोमूत्र्यते, सूचण्–सोसूच्यते । अश्नुते, अश्नाति तस्माद्यङन्तात् अशाश्यते । ऊणुगक-प्रोर्णोनूयते। अट्यर्त्यशामव्यञ्जनादित्वात् सूत्रि