________________
( ५४ )
शान्दान्मान्बधान्निशावार्जवविचारवरूप्ये दीर्घश्चेतः ३३४७॥
एभ्यो यथासङ्ख्यं निशानाद्यर्थेभ्यः स्वार्थे सन् स्यात्। दीर्घश्चैषां द्वित्वे पूर्वस्येतः । शीशांसति, दीदांसति। मीमांसते । बीभत्सते। . अर्थोक्तिः किम् ? अर्थान्तरे माभूत् । निशानम्, अवदानम् मानयति, बाधयति ॥७॥
ननु 'दीर्घः' इति सामान्योक्तावपि सनि इत एव दीर्घः स्यादिति चेन्न "इतः” इत्युपादानाभावे सनि प्रथममेवाकारस्य दीर्घः स्यात् । निन्दितो रूपो विरूपः तस्य भावः वरूप्यम् । “शोंच तक्षणे', 'दोंच छेदने' निश्यतीति निशानम्, अवद्यतीति अवदानम्, इत्यत्रानड् ॥७॥ . ..
धातोः कण्ड्वादेर्यक् ।३।४।८। एभ्यो धातुभ्यः स्वार्थे यक् स्यात् । कण्ड्यति, वण्ड्यते । महीयते । धातोरिति किम् ? कण्डूः ॥८॥
द्विविधा कण्ड्वादय धातवो नामानि च । ननु यकः कित्त्वाद् धातोरेवायं विधिर्भविष्यतीति अत्र धातुग्रहणं व्यर्थमिति चेद् सत्यम् धातुग्रहणत्तरार्थमिह सुखाथं च । अयं भावः-कितः फलं "नामिनो गुणो० ।४।३।१। इत्यादि तच्च धातोरेव । “गौणमुख्ययो० इति न्यायान्मुख्यो धातुः । नाम्नोपि धातोः सकाशाद् भावात् । “अवयवे कृतं लिङ्ग समुदायमपि विशिनष्टि" इति न्यायेन कण्ड्ग इत्यस्य गित्त्वात् यगन्तसमुदायस्यापि गित्त्वात् फलवत्यात्मनेपद फलवत्त्वाभावे तु परस्मैपदम्।।८।।
व्यजनादेरेकस्वराद् भृशाभीक्षण्ये यङ्वा ।३।४।६। गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन