________________
( ५३ )
ऋतेः स्वार्थे ङीयः स्यात् । ऋतीयते ॥३॥
ऋत घृणागतिस्पर्द्धषु । ङकार आत्मनेपदार्थ: गुणाभावार्थश्च । ङीयप्रत्ययस्यादन्तकरणात् " उपान्त्यस्या० ” | ४|२| ३५ | इति ह्रस्वो भवति | |३||
अशवि ते वा | ३ | ४|४|
गुपादिभ्योऽशत्विषये ते आयादयो वा स्युः । गोपायिता । गोप्ता । कामयिता । कमिता । ऋतीयिता । अर्तिता ॥४॥
गुपौ रक्षणं इति भ्वादि: ॥४॥
गुप्तिजो गर्भाक्षान्तौ सन् | ३ | ४|५|
गपो गर्हायां तिजः क्षान्तौ वर्तमानात् स्वार्थे सन् स्यात् । जुगुत्सते तितिक्षते । गर्भाक्षान्ताविति किम् ? गोपनम् तेजनम् ॥५॥
अकारः सन्ग्रहणेषु सामान्यग्रहणार्थ:, अन्यथेच्छासन एव ग्रहणं स्यात् । नकारः “सन्यङश्च’ |४| १ | ३ | इत्यत्र विशेषणार्थः । तितित्रने-सहते इत्यर्थः । गोपनं तेजनमिति - अनयोरथन्तिरेऽपि त्यादयो नाभिधीयन्ते इत्यत्यादिना प्रत्युदाहृतम् । एवमुत्तसूत्रद्वयेपि प्रायेण ज्ञेयम् ||५||
कितः संशयप्रतीकारे || ३ |४| ६ |
कितः संशयप्रतीकारार्थात् स्वार्थे सन् स्यात् । विचिकित्सति मे मनः । व्याधि चिकित्सति । संशयप्रतीकारार्थ इति किम् ? केतयति ॥ ६ ॥
बिचिकित्सति = संशेते इत्यर्थः । व्याधि चिकित्सति = प्रतिकरो - तीत्यर्थः । अनवधारणात्मकः प्रत्ययः संशयः । प्रतीकारो दु:खहेतोर्निराकरणम् ॥६॥