________________
( ५२ )
॥ अथ तृतीयाध्याये चतुर्थः पाद ॥ गुपौधुपविच्छ्पिणिपनेरायः ॥ ३ ॥ ४१ ॥
एभ्यो धातुभ्यः स्वार्थे आयः स्यात् । गोपायति । धूपायति । पणायति । पनायति ॥ १ ॥
सूत्रे विशेषार्थः कोऽपि न निर्दिष्टः इति वृत्तौ 'स्वार्थे' इत्युक्तम् । अनुबन्धस्याशवि आयप्रत्यया - भावपक्षे चरितार्थत्वादाय प्रत्यान्ताभ्यां पणिपनिभ्यामात्मनेपदं न भवति । गुपावित्यौकारौ गुपि गोपने इत्यस्य निवृत्त्यर्थ: । ' गुपण भासार्थः, गुपच् व्याकुलत्वे । इत्यनयोस्तु धूपसाहचर्यान्नि सः । ननु धूपश्चुरादिरप्यस्ति ? अणिजन्त विच्छ साहचर्यात् भ्वादेरेव धूपस्य ग्रहणम् । ननु विच्छिरपि भासार्थं चुरादिस्तत्कथं तेन साहचर्यम् ? सत्यं तस्याणिजन्ताभ्यां पणि निभ्यां साहचर्यान्निरासः गुपावित्योकारो यङ्लु निवृत्त्यर्थश्च । ननु यङ्प्रत्ययस्य प्राप्तिरेव नास्ति, आयप्रत्ययेऽनेकस्वरत्वात् तत्कथं यङ्लु॰निवृत्त्यर्थंश्चेति कथ्यते ? अशव्विषये " अशबि ते वा" | ३ | ४ | ३ | इति विकल्पितस्याऽऽयस्य प्रथमं यङि "प्रकृतिग्रहणे यलुबन्तानामपि ग्रहणम्" इति न्यायात्प्राप्तिः ।
पणायति = व्यवहरति स्तौति चेत्यर्थः ॥ १ ॥
कमेर्णिङ | ३|४|२|
कमेः स्वार्थे णिङ् स्तात् । कामयते ॥ २ ॥
णकारो वृद्धयर्थः, ङकार आत्मनेपदार्थः । णिङो ङित्करणेन 'प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तामपि ग्रहणमिति न्यायस्यानित्यता ज्ञाप्यते । अनित्यताज्ञापनफलं तु पणायतीत्यादी पण्धात्वादेरिदित्वेपि नात्मनेपदम् ||२||
ऋतेङयः | ३ | ४ | ३ |