SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ( ५१: ) अणिगवस्थायां यः प्राणिकर्तृ कोऽकर्मकश्च धातुस्तस्माण्णिगन्तास्कर्तरि परस्मैपदं स्यात् । आसयति चैत्रम् । अणिगीति किम् ? स्वयमेवारोहयमाणं गजं प्रयुक्त आरोहयते । अणिगिति गकारः किम् ? चेतयमानं प्रयुक्त चेतयति । प्राणिकर्तृ कादिति किम् ? शोषयते व्रीहीनातपः । अनाप्यादिति किम् ? कटं कारयते ॥१०७॥ .. ::: . आस्तै चैत्रः आसयति चैत्रम् । शुष्यन्ति व्रीहयः शोषयते ब्रीहीन् आतपः “प्राण्यौषधि० ।६।२।३१। इत्यत्र पृथग्निर्देशादिह लोके प्रतीताः वसरूपा एव प्राणिनो गृह्यन्ते । 'ईगितः । ३।३१८५॥ इत्यात्मनेपदस्यापवादोऽयम् ॥१०७॥ .. . चल्याहारार्थेबुधयुधपुद्र श्रुनशजनः ।३।३।१०। . चल्याहारार्थेभ्यः इडादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपदं स्यात् । चलयति । कम्पयति । भोजयति । आशयति चैत्रमन्नम् । सूत्रमध्यापयति शिष्यम् । बोधयति पद्म रविः । योधयति काष्ठानि । प्रावयति राज्यम् । द्रावयत्ययः । श्रावयति तैलम् । नाशयति पापम् । जनयति पुण्यम् ॥१०॥ . चलिरर्थः कम्पनम् । अध्याययति="णी क्रीजीङः ।४।२।१०। इत्यात्त्वम् । प्रावयति राज्यम्-प्रापयतीत्यर्थः । द्रावयत्ययः-विलाययतीत्यर्थः । पुत्र द्वस्त्र णामचलनार्थं शेषाणां सकर्मकार्थमप्राणिकर्तृ कार्थ च वचनम् ॥१०॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy