SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ - ( ४६ ) येभ्यो धातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततोऽन्यस्मात्कर्तरि परस्मेपदं स्यात् । भवति । अत्ति ॥१००॥ पूर्वप्रकरणेनात्मनेपदनियमः कृतः परस्मैपदं त्वनियतमिति नियमार्थमिदम् उपर्युक्तादन्यः शेष अनुबन्धोपसर्थोपपदप्रत्ययभेदाच्चानेकधा शेषः । अनुबन्धशेषाद्दाहरति भवति अत्ति। "इङितः कर्तरि ।३।३।२२। इत्यनेनात्मनेपद्वविधिः "ईगितः" ।३।३।६५। इत्यनेन फलवत्कर्तत्मिनेपदविधि, इतोऽन्ये धातवो निरनुबन्धा भ्वादयोऽनुबन्धशेषा इत्युच्यन्ते ॥१०॥ परानो कृगः ।३।३।१०१॥ परानुपूर्वात्कृगः कर्तरि परस्मैपदं स्यात् । परा करोति । अनुकरोति ॥१०१॥ गन्धनादावर्थे गित्त्वात्फलवति प्राप्तस्यात्मनेपदस्यापवादोऽयम् ॥१०१॥ प्रत्यभ्यतेः क्षिपः ।३।३।१०२। एभ्यः परात् क्षिपेः कर्तरि परस्मैपदं स्यात् । प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति ॥१०॥ ईदित्वात् फलवति प्राप्तस्यात्मनेपदस्यापवादोऽयम् । इह क्षिपिः तौदादिक ईदित् गृह्यते न तु देवादिकः, तस्यानुबन्धशेषेण “शेषात् ।३।३।१०० इत्यनेनैब सिद्धत्वात् ॥१०२॥ प्राद्वहः ।३।३।१०३। अतः कर्तरि परस्मैयदं स्यात् । प्रवहति ॥१०३॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy