________________
( ४८ )
एभ्यः इति । ग्रन्थे यः प्रयोगाभावेन यमेस्तदर्थत्वाभावे 'अग्रन्थे' इति पर्युदासस्य वैयथ्यं स्यादिति विषयसप्तम्या व्याख्याति अग्रन्थ विषये इतितथा च यमेयः कश्चिदर्थोऽस्तु सम्पूर्णवाक्यस्य ग्रन्थविषये प्रयोगाभाव एव तात्पर्यमित्यायाति । संयच्छते व्रीहीन - राशिभूतान् करोतीत्यर्थः । उद्यच्छते भारम् - उत्थापयतीत्यर्थः । आयच्छते भारम् - लभते इत्यर्थः । चिकित्सामुद्यच्छति - चिकित्साग्रन्थे उद्यमं करोतीत्यर्थः । चिकित्साहेतुत्वात् ग्रन्थोऽपि चिकित्सा, चिकित्स्यतेऽनया इति वा 'शंसि - प्रत्ययात् '' ५।३।१०५। तदा बाहुलकात्स्त्रीत्वम् ॥६८॥
पदान्तरगम्ये वा | ३ | ३६६ ॥
प्रकान्तपञ्चके यदात्मनेपदमुक्तं सत्पदान्तरगम्ये फलवत्कतरि वा स्यात् । स्वं शत्रु परिमोहयते । परिमोहयति वा । स्वं यज्ञं यजते यजति वा । स्वां गां जानीते जानाति वा । स्वं शत्रुमप्रवदते, अपवदति दा । स्वान् व्रीहीन संयच्छते, संयच्छति
118211
प्रकान्तपञ्चकेन प्रक्रान्ततत्सूत्राव्यवहितसूत्र पञ्चकेने त्यर्थः तच्च सूत्रपञ्चकं "परिमुहा० |३|३|६४ इत्यारभ्यैतन्यवहितपूर्व पठितः 'समुदाङगे० " ३३६८ इति पर्यन्तम् । अन्यत्पदं पदान्तरम् । तत्तत्सूविहितात्मनेपदभिन्नपदेन 'स्वम्, आत्मीयम, निजम् ' इत्यादिपदेन' कतु' : फलवत्त्वे गम्ये वाऽऽत्मनेपदं भवति । परिमोहयते = यद्यपि प्राप्तविभाषास्थले निषेधस्यैव शास्त्रविधेयत्वेन पूर्वं परस्मैपदस्यैवोदाहरणं न्याय्यम् तथाप्यात्मनेपदस्य पूर्वमुपस्थितत्वेन तस्यैव पूर्वमुदाहरणं परस्मैपदस्याग्र विधीयमानत्वेन पश्चादुदाहरणमिति बोध्यम् ॥६॥
शेषात्परस्मै | ३ | ३|१001