________________
( ४७ )
___ अकर्मकात् पूर्वेण 'ज्ञः' ।३।३।८२। इत्यनेनैव सिद्ध सकर्मकार्थ वचनम्। अनुपसर्गात्-नत्रः प्रसेज्यप्रतिषेधपरत्वमेव स्वीकार्यम्, पर्युदासपरत्वे हि उपसर्गभिन्नात् कस्माच्चिदपि परत्वे सत्येवात्मनेपदं स्यात् तच्च नेष्टं केवलादेव विधानस्येष्टत्वात् । तथा चान्यपूर्वकात्प्राप्तिरेव नास्ति, तेनं सह धातोः सामर्थ्याभावात् उपसर्गपूर्वकादस्ति प्राप्तिसंभवस्तस्यानेन निषेधः क्रियते ।
___जानाति--परकीयगव्या अवेक्षणं प्रतीयते । तत्फलं च नावेक्षणकर्तु रपि तु परस्यैवेति अनुपसर्गपूर्वकत्वेऽपि न भवत्यात्मनेपदम् । ॥६॥
वदोऽपात् ।३।३।६। अतः फलवति कर्तर्यात्मनेपदं स्यात् । एकान्तमपवदते । फलवतीत्येव-अपवदति परं स्वभावात् ॥१७॥
एकान्तमपवते, एकान्तः-एकातवादः, तमपवदते-वाचा प्रतिषेधयतीत्यर्थः । अपवदति-कस्यचिदेवं स्वभाव एव यदन्यं जनमपवदति निन्दतीति ॥६७॥
ममुदाङो यमेरग्रन्थे ।३।३।। एभ्यः परात् यमेरग्रन्थविषये फलवत्कर्तर्यात्मनेपदं स्यात् । संयच्छते व्रीहीन् । उद्यच्छते भारम् । आयच्छते भारम् । अग्रन्थ इति किम् ? चिकित्सामुद्यच्छति । फलवतीत्येव संयच्छति ॥९॥
आङपूर्वादकर्मकात् स्वाङ्ग-कर्मकाच्च 'आडो यम०' ३॥३॥८६॥ इति सिद्ध ऽन्यकर्मकार्थ वचनम् । समुत्पूर्वकात्त, कुतोऽपि न प्राप्तिरिति तद्विषये सर्वथैवापूर्वविधिः । सूत्रे समाहारनिर्देशेऽपि समाहारस्य समूहरूपत्वेन उक्तसर्वोपमर्गसमूहपूर्वकादेवानेनात्मनेपदमिति । भ्रमव्युदासायाह