________________
नृत्यति तमन्यः प्रवर्त यति । ननु णिगो गित्त्वेन 'ईगितः ।।३।६५ इत्यग्रिमसूत्रेणैव फलवत्कर्तृ तायां संभवत्येवात्मनेपदमिति प्रकृतसूत्रस्य वैयर्थ्य मिति चेत् अत्रोच्यते पिबत्यत्तिधेधातूनामाहारार्थत्वाददासीन्यनिवृत्यर्थतायामकर्मकत्त्वाच्च नृतेश्चलनार्थवाच्च शेषाणां स्वरूपतो विवक्षातो वाऽकर्मकत्वादुत्तराभ्यां परस्मैपदे प्राप्ते वचनम्।
__ अत्र भाव:-पिबतिः पानार्थक: (अत्र सूत्रे धेसाहचर्यात्पिबते ग्रहणं न पातेः) अत्तिः भक्षणार्थः, धेधातुरपि पानार्थ एव । एषामहारार्थत्वात् “चल्याहारा०।३।३।१०८। इत्यनेन परस्मैपदप्राप्तिः, नृत्तात्र- . विक्षेपार्थस्य चलनार्थत्वमिति तस्याप्युक्तसूत्रेणैव परस्मैपदप्रप्तिः, अन्येषां वस्-यम्-यस्-दम्-रुच् धातूनां स्वाभावादेवाकर्मकत्वम् (अत्र सूत्रे वदसाहचर्यात् 'वस' इति वसते हणं न तु वस्तेः ।) वदेश्च विवक्षातोऽकर्मकत्वमिति 'अणिगि प्राणि'० ।३।३।१०७। सूत्रेण परस्मैपदं प्राप्तमिति तत्प्रबाधनाय विशिष्यानेनात्मनेपदाविधानम् ।।१४।।
ईगितः ।३।३६५॥
ईदितो गितश्च धातोः फरवति कर्तर्यात्मनेपदं स्यात् । यते कुरुते । फलवतीत्येव-यजन्ति । कुर्वन्ति ॥६५॥
यजते---यजधातु कारेत् देवपूजाद्यर्थः, देवपूजादेः प्रधानं फलं मोक्षः अप्रधानं तु इहलोकपरलोकेष्टफलसिद्धिः। पूजकस्य मोक्षभावें विवक्षितेऽनेनाऽऽत्मनेपदं भवति । कुरुते--कृग् करणे भ्वादिः । फलवत्त्वं विवक्षाधीनमेव गृह्यते तथैव लोके व्यवहारात् । व्याकरणमपि हि लोकप्रसिद्धशिष्टव्यवहारमेवानुविधत्ते न तु किञ्चिन्न तनं शास्ति । अविवक्षावशात् सतोऽप्यसत्त्वम्, असतोऽपि विवक्षावशात्सत्त्वमभिधीयते ॥६५॥
ज्ञोऽनुपसर्गात् ॥३॥३॥६६॥ अतः फलवति कर्तर्यात्मनेपदं स्यात् । गां जानीते । फलवतीत्येव । परस्य गां जानाति ॥६६॥