________________
[ ५ ]
पक्त : स्वामिप्रीतिः, भृतिलाभो वा । यत्र पक्ता प्रधानेन फलेनौदनेन सम्बध्यते तत्रैव पचते इति प्रयोगो भवति यत्रान्यार्थं पाकः तत्र तु पचतीत्येव प्रयोगः । उक्त च-'यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादय ।
तत् प्रधानं फलं तेषां, न लाभादि प्रयोजनम् ।।' कारिकार्थः-अत्र पचादयः इत्युत्तरमेवकार अध्याहार्यः यस्यार्थस्य प्रसिद्धयर्थं पचादय एवाऽऽरभ्यन्ते न क्रियान्तराणि, तत् तेषां प्रधानं फलम्, लाभादिप्रयोजनं तु प्रधानं फलं न तस्य क्रियान्तरेणापि संभवात्, पाचकेन यद् वेतनं पचिक्रियार्थं लभ्यते तावदन्यकार्यकरणेऽपि लब्धं शक्यत एवेति लाभो न पचिक्रियायाः प्रधानं फलं भवितुमर्हति । प्रधानफलवत्त्वं च विवक्षाधीनं यत्र कर्तुं रौदनेन फलेन सम्बन्धो विवक्षितस्तत्रैव तस्य फलवत्त्वम्, तत्रैव ईदित्वप्रयुक्तमात्मनेपदं भवति पचते इति यत्र च पाचकानां लाभादिप्रयोजनं विवक्षितं तत्र पचन्ति पाचका इत्यायेद । परिमोहयते--परिमोहनस्य प्रधानं फलं चित्तविक्षेपः तेन च परिमोग्धा चैत्रः सम्बध्यते एवेत्यस्ति फलवत्त्वं कस्तथैव विवक्षितत्वात् । परि-- मुह-णिग् । आयामयते आपूर्वाद् यमेणिग्, सर्प आयच्छति दी| भवति तं प्रेग्यतीत्यर्थः । अत्रापि प्रधानस्य क्रियाफलस्य सर्पण सम्बन्धः । यद्यपि चैत्रसादयः सम्प्रति कर्मतां गतास्तथापि वस्तुतस्तेषां धातुत्वं प्रति कर्तृत्वमेवेति मलधानोरेब कर्तुः फलवत्त्वं विवक्षितं न तु णिगन्तस्य । णिगन्तकर्तु : प्रयोजकत्वेन तस्य धात्वर्थकर्तृत्वाभावात् । कश्चित् “यमः परिवेषणे" इति पठति तन्मताभिप्रायेण न हस्वः, स्वमते तू “यमोऽपरिवेषणे" ।४।२।२६। इति भवलोव । आयासयते- मैत्र आयस्यति त चैत्रः प्रेरयते । 'यसूच प्रेरणे' इति दिवादिपटितो यस्धातुः । पाययते बटुः पिबति तं प्रेरयति । पानक्रियायाः फलं द्रवद्रव्यस्य गलबिल वःसंयोगः तेन न फलेन कर्तृ : सम्बन्धः । धापयते-धेधातूरपि पानार्थः शिशूर्धयति तं धात्री प्रेरयति । वादयते बटुर्वदति 'अम्ब' इत्यादिशब्दमुच्चारयति तं स्वजनः प्रेरयति अम्ब इत्यादिशब्दोच्चारणे प्रवर्तयतीत्यर्थः । वासयते-- पान्थो दिनान्ते कस्यनिद् गहे बसति तं गहपतिर्वासयति । दमयतेअश्वो दाम्यति तं सादी प्रेरयति । आदयते--अत्ति चैत्रः तं मैत्रः प्रेरयति, अत्राणिगवस्थाकर्तृ श्चैत्रस्य णिगवस्थायां प्राप्तमपि कर्मत्वं गतिबोधा० ।२।२॥५॥ सूत्रे ‘अनीखाद्यदि०' इत्यादिपर्यु दासान्न भवतीति कर्तरि तृतीयैव भवति । रोचयते--- मैत्रो रोचते तमन्यः प्रेग्यति । नर्तयते-नटो