________________
[ ४४ ]
यति । अभ्यास इति किम् ? सकृत्पदं मिथ्या कारयति ॥३॥
मिथ्यायुक्तञ्चासौ कृग् मिथ्याकृग् तस्मादिति विग्रहे मयूख्यंसकादित्वान्मध्यमपदलोपिसमासः । अभ्यासः=असकृदावृत्तिः । कारयतेस्वरादिदोषदुष्टमसकृदुच्चारयति पाठयतीत्यर्थः । मिथ्याभूतं पदं कश्चिकरोति उच्चरति तमन्यः प्रयुक्त इति णिग्। स्वरः उदात्तादिः तद्विषयको यो दोषः उदात्तस्थानेऽनुदात्तस्य स्वरितस्य वा प्रयोगः स्वरितादिस्थाने उदात्तादेः प्रयोगो वा स्वरदोषः । उदातादीनां वेदमात्रविषयतायाः सत्त्वात् स्वमते उदात्तादीनामपरिभाषणाच्च ह्रस्वत्वदीर्घत्वपरिवृत्तिरेव दोषत्वेन ग्रहीतुं शक्यते, व्यञ्जनदोषेऽपि स्थानप्रयत्नपरिवृत्तिकृत एव दोषो ग्राह्यः । कारयतिन्अत्र सकृत्पदसान्निध्यादभ्यासार्थाभावः स्फुट एव ॥६॥
परिमुहायमायंसपाधे-वद-वस-दमाऽऽद-रुच-नृतः फलवति ।३।३।६।।
प्रधानफलवति कर्तरि एभ्यो विवक्षितेभ्यो णिगन्तेभ्यः आत्मनेपदं स्यात् । परिमोहयते चैत्रम्। आमामयते सर्पम् । आयासयले मैत्रम् । पाम्पते बटुम् । धापयले शिशुम् . वादयते । बदुम् । वासयते । पान्थन् । दमयते अश्वम् । आदयते चत्रण । रोचयते मैत्रय । नत्तयते नटम् ॥१४॥
फलवतीति-अत्र भूम्न्यतिशायने वा मतुः अत एवोक्तम्प्रधानफलवतीति । मतोरर्थाः निम्नकारिकायाः ज्ञेयाः।
भूमनिन्दाप्रशंसासु, नित्ययोगातिशायने ।
संसर्गेऽस्ति विवक्षायां, प्रायो मत्वादयोमताः॥
यत्क्रियायाः प्रधानं फलमोदनादिः यदर्थमियमारभ्यते तद्वित कर्तरि विवक्षिते इत्यर्थः ।
क्रियायाः फलं द्विविधम् प्रधानमप्रधानं च यथा पचतीत्यादौ प्रधानं फलमोदनसम्पत्तिः तस्याः क्रियान्तरेणासाध्यत्वात्, अप्रधानं फलं