________________
[ ४३ ]
विस्मापयते बालो विस्मयते तं जटिलः प्रेरयति, अत्र जटिलः प्रयोक्ता तत एव स्मयो न तु कारणान्तरादिति भवत्यात्त्वात्मनेपदं च । विस्माययति कश्चित्स्वकीयरूपेण करणेन विस्मितं करोतीत्यर्थे रूपस्यैव विस्मयजनकत्वम् । प्रयोक्त : स्वार्थे इति कथनात् करणात्स्वार्थेन भवति । ङिन्निर्देशाद् यङ्लुपि न भवति ॥६१॥
बिभेतीष च ।३।३।६२॥ प्रयोक्तं तः स्वार्थवृत्तय॑न्ताद्भियः कर्तर्यात्मनेपदं स्यादस्य च भीष पक्षे आच्चाकर्तर्यपि। मुण्डो भीषयते, भापयते, भापयते, वा । प्रयोक्त : स्वार्थ इत्येव । कुञ्चिकया भापयति । अकर्तर्यपीत्येव-भीषा, भापनम् ॥१२॥
भीषादेशपक्षे आत्त्वस्य न प्रवृतिरवकाशाभावादिति आदेशद्वयविधानाय बिभेतेरिति आवर्तनीयम् । एकत्र स्थानषष्ठी, अपरत्र चावयव षष्ठीति बिभेतेः स्थाने भीष्, बिभेतेरन्तस्य चाऽऽत्त्वमित्यर्थाश्रयणात् विनापि विकल्पवचन विधेयद्वयावकाशाय भीषादेशस्य पाक्षिकत्वं पर्यवस्यति । अकर्तर्यपीत्यस्य भीषादेशेनापि सम्बन्धः स्वीकार्य एव तुल्ययोगक्षेमत्वात् । तथा चोदाहरणे स्पष्टमेव । भीषयते बालो बिभेति बिभ्यतं तं मुण्डो भीषयते । अत्र णिग् पक्षे आत्वानुकूलं रूपमाह- भापयते । भापयति अत्र कुञ्चिका भयस्य करणं न तु प्रयोक्त्री। करणात् धात्वर्थस्य भयस्योत्पत्ति विवक्षायां न भवत्यात्मनेपदं न वा भीषादेशात्त्वे भवतः इति भावः । भीषा, भापनमू-बिभेतेणिगन्ताद् भावे "भीषि-भषि". ।५।३।१०६। इत्यङि प्रत्ययेऽपि भीषादेशो भवति । भावप्रत्ययेऽनटि अपि भवत्त्यात्त्वम् । सूत्रे तिनिर्देशाद् यङ्लुपि न भवति ॥६२॥
मिथ्याकृगोऽभ्यासे ।३।३।६३। मिथ्यायुक्तात्कृगो ण्यन्तात्क्रियाभ्यासवृत्त्यर्थात्कर्तर्यात्मनेपदं स्यात् । पदं मिथ्या कारयते। मिथ्येति किम् ? पदं साधु कार