________________
[
४२ ]
लोलिनोऽर्चाभिभवे चाच्चाकर्तर्यपि ।३।३।६०। आभ्यां णिगन्ताभ्यामर्चाभिभवप्रलम्भार्थाभ्यां कर्तर्यात्मनेपदं स्यादाच्चानयोरकर्तर्यपि । अर्चा जटाभिरालापयते । अभिभवः-श्येनो वर्तिकामपलापयते । प्रलम्भः-कस्त्वामुल्लापयते । अकर्तर्यपीति किम् ? जटाभिरालाप्यते जटिलेन ॥६॥
ङिच्छ्नानिर्देशौ यौजादिकनिवृत्त्यर्थः="लीच् श्लेषणे" इति दिवादिः, ‘लींश श्लोषणे' इति क्रयादिः उभयोरेकरूपत्वात् 'लियः' इत्येवंरूपेण निर्देशे लाघवम्, तदनादृत्यापि गौरवग्रस्तोऽनुबन्धेन विकरणेन च सह निर्देशः चुराधन्तर्गतयुजादिपठितस्य ‘लीण् द्रवीकरणे' इत्यस्याग्रहणार्थः ।' लीङलिनो० ।४।२।६। इति सूत्रेऽपि ङिच्छनानिर्देशादात्त्वमपि "लीण" इत्यस्य नेष्टम् । आत्मनेपदं कर्तरि विधीयते तत्सन्नियोगशिष्टमात्त्वमपि कर्तरि प्रत्यये सत्येव स्यात्, दृश्यते च कर्मणि प्रत्ययेऽपीति तत्सिद्वै आह= अकर्तर्यपि । आलापयते परैरात्मानं पूजयतीत्यर्थः। पूज्यत्वबुद्धया परे आलीयन्ते श्लिष्यन्ति तान् भिक्षुर्जटाभिरालापयति । अपलापयते अभिभवतीत्यर्थः, श्येनः क्षुद्रपक्षिहिंसक: प्राणिविशेषः, वर्तिका क्षुद्रशकुनिविशेषः। वर्तिका भयादपलीयते तां श्येनोऽपलापयते । अत्राभिभवस्य आक्रमणस्य तिस्कारस्य वा सत्त्वादात्मनेपदम् । उल्लापयतेवञ्चयते इत्यर्थः, कश्चित्परेणोपन्यस्तं स्वप्रवर्तक कञ्चन विषयं कस्मैचित्कथयति तदवगत्यासौ तमाह कस्त्वामुल्लापयते त्वां कः वञ्चयते इति कथय । अत्र त्वमुल्लीयसे नं कश्चित्प्रेरयतीत्यर्थविवक्षा ॥६०॥ .
स्मिङः प्रयोक्त : स्वार्थे ।३।३।६१॥
प्रतोक्त तो यः स्वार्थः स्मयस्तदर्थाण्णिगन्तास्मिङः कर्तर्यात्मनेपदं स्याच्चास्याकर्तर्यपि । जटिलोविस्मापयते । प्रयोक्तः स्वार्थ इति किम् ? रूपेण विस्माययति । अकर्तर्यपीत्येवविस्मापनम् ॥६ ॥