________________
[ ४१ ]
नेपदम् । दर्शयति कर्मेति कथनात्करणादेः कर्तृत्वे न भवति । पश्यन्ति भृत्याः प्रदीपेनेत्यणिंगवस्था। लावयति=णिगिति भणनात् यत्राणिगवस्थायामेव कर्मणः कर्तृ त्वं विवक्षितं तत्राणिक्कर्म कर्ताऽस्ति तादृशकर्तृ काद् धातोः प्रयोजकव्यापारविवक्षायां णिगि कृते आत्मनेपदं नः भवति । लुनाति केदारं चैत्रः यदा कर्मण एव सौकर्यातिशयद्योतनार्थं कर्तृत्वं विवक्ष्यते तदा लूपते केदारः स्वयमेवेति “एकधाती कर्मक्रिययकाऽकर्मक्रिये" ।३।४॥८६॥ इत्यात्मनेपदं क्यश्च भवति अत्रैव प्रयोजकव्यापारक्विक्षायां लावथति केदारं चैत्रः । णिगित्युपादानादत्राफलवत्कर्तरि लावयतीति परस्मैपदमेव भवति । णिगित्यस्याभावे तु फलवत्यफलवति च सर्वत्र त्मनेपदमेव स्यात् । अणिगि मा भूदिति-णिग इत्यनुक्तो अणिक्कर्तृ कपदेन मूलभूतो धातुरेव ग्रहीष्यतेऽन्यस्यानुपस्थितेरिति यस्य धातोरणिगवस्थाव मत्वम् णिगवस्थाकर्तृ त्वं स्यात् तस्मादणिगन्ताद् णिगन्ताद् वाऽऽत्मनेपदं भवतीति सूत्रार्थे सति यथा णिगन्तादात्मनेपदं भवति तथाऽणिगन्तादपि प्रथमावस्थायामेव "आरोहन्ति हस्तिनं हस्तिपकाः” इत्यत्रापि आत्मनेपदं स्यात् । स्मरयति स्मरति वनगुल्मं कोकिल इत्यणिगवस्था ॥८॥
प्रलम्भे गृधिवञ्चेः ।३।३।१६।. आभ्यां णिगन्ताभ्यां प्रलम्भनार्थाभ्यां कर्तर्यात्मनेपदं स्यात् । वटुं गीतते, वञ्चयते वा। प्रलम्भ इति किम् ? श्वान गर्द्ध
यति ॥६॥ ... णिगो गित्त्वेन फलवत्यात्मनेपदे सिद्धेपि अफल (ति तदसिद्धयाऽनेनाऽऽत्मनेपदं विधीयते । अत्र यत्र यत्र णिगन्तादात्मनेपदविधानं तत्र सर्वत्राफलबदर्थम् । गर्द्ध यते विप्रतारयतीत्यर्थः, वञ्चयते विप्रतारयतीत्यर्थः किञ्चिद् वस्तु दीयमानत्वेन प्रदाप्रदानं विप्रतारणमुच्यते । गृधिदिवादिः, वउिचञ्चुरादि: बटुग्रुध्यति चैत्रो बटु वञ्च्यते गृध्यन्तं वनयन्तं वा प्रयुक्त इत्यर्थे णिग् । गधच अभिकांक्षायाम, वञ्निण् प्रलम्भने । गर्द्ध यति प्रलोभयतीत्यर्थः किमपि भोज्यं वस्तु प्रदाभिकाङ्कामस्योत्पादयति । अत्र प्रदर्श्यमानेन वस्तुना न तस्य प्रतारणमपि तु तद्ग्रहणार्थमेव रुच्युत्पादनम् ॥६॥