________________
( ४० )
णिम् = तापयतीत्यर्थः । अग्न्यादिसम्पर्केणापगतशैत्यं करोतीति भाव:
115011
अणिक्कर्म णिक्कर्तृकाणिगोऽस्मृतौ | ३ | ३८८ |
अगिवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य तस्मादगितादस्मृत्यर्थात् कर्तयत्मनेपदं स्यात् । आरोहयते हस्ती हास्तिपकान् । अणिगितीति किम् ? आरोहयति हस्तिपकान्महामात्रः । आरोहयन्ति महामात्रेण हस्तिपकाः । गित्किम् ? गणयते गणो गोपालकम् ? कर्मेति किम् ? दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? लुनाति केदारं चैत्रः । लूयते केदारः स्वयमेव, तं प्रयुक्त लावयति केदारं चैत्रः । कर्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः तानारोहति महामात्रः । णिगं इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः तानेनमारोहयते हस्तीत्यणिगि मा भूत् । अस्मृताविति किम् ? स्मरयति वनगुल्मः कोकिलम्
lissil
आरोहयते हस्तीति- अवानुकलाचरणं पादार्पणशिरोधननादि । हस्तिपका : हस्तिन उपर्यागच्छति तांस्तदनुकूलाचरणेनाऽऽगमयतीत्यर्थः । इयं furrr | आरोहन्ति हस्तिनं हस्तिपका इत्यणिगवस्था | आरोहयति हस्तिपका महानात्रः - प्रधान हस्तिपक: महामात्र उच्यते, आरोहन्ति हस्तिनं हस्तिपकाः, आरोहतो हस्तिपकान् महामात्रः प्रेरयतीत्यवस्थायां प्रथमं णि, आत्मनः आरोहयन्तं महामात्रं हस्तिपकाः प्रेरयन्तीत्यर्थविवक्षाया पुनर्णिग् । द्वौ णिगौ । अत हस्तिपकः णिगवस्थायां कर्मास्ति अणिगवस्थायां नास्ति । गणयते - गणयति गणं गोपालक इति अणिगवस्था, चुरादित्वात्स्वार्थे णित्रु । गणयन्तं गोपालकं गणः प्रेरयतीति विवक्षायां for सति अणिक्कर्मणो गणस्य णिगवस्थायां कर्तृत्त्वसत्त्वाद्भवत्येवात्मनेपदम् । गित्करणाभावे च गणयति गगं गोपालक इत्यस्याण्यन्तत्वाभावेन तत्र कर्नगो गणस्य मिगन्तावस्थायां कर्तृत्त्वसत्त्वेऽपि न स्यादात्म