________________
( ४५७. )
समूलाद्वयाप्यात्पराद्धन्तेः कषेश्च तस्य व सम्बन्धे णवा स्यात् । समूलघातं हन्ति । समूलकाषं कषति ॥६३॥ हनश्च-“समूलमिति साकल्येऽव्ययीभावो बहुव्रीहिर्वा । समूलघातं हन्तीतिसमूलं हन्तीत्यर्थः । समूल काषं कषतीति-समूलं कषतीति-समूलं कषतीत्यर्थ ॥६३।।
करणेभ्यः ।।४।६४॥
करणार्थात्पराद्धन्तेस्तस्यैव सम्बन्धे णवा स्यात् । पाणिवातं कुड्यमाहन्ति ॥६४॥ करणेभ्यः-पाणिघातं कुड्यमाहन्तीति-पाणिना हन्तीत्यर्थः, ड्युक्त-त्वेन . नित्यसमासः, 'णिति घात्' ।४।३।१००। इति घातादेशः ।।६४॥
स्वस्नेहनार्थात्पुषपिषः ।।४।६५॥ स्वशब्दार्थात् स्नेहनार्थाच्च करणार्थात्पराद्यथासङ्ख्यं पुषः पिषश्च तस्य व सम्बन्धे णम्वा स्यात् । स्वपोषं पुष्णाति । एवमात्मपोषम् । उदपेषं पिनष्टि । एवं क्षीरपेषम् ॥६५॥ स्वस्नेहना-'आत्मा आत्मीयं ज्ञातिर्धनं च स्वम्, स्निह्यते-सिच्यते येनोदकादिना तत् स्नेहनम् । स्वपोषं पुष्णातीत्यादि-अत्र इत्यपि ज्ञेयंस्वपोषं पुष्यति पोषति वा, पुषग्रहणेन त्रयाणामपि पुषां ग्रहणम्, स्वेन पुष्णातीत्याद्यर्थः । स्नेहनार्थे पिष उदाहरणमाह-उदपेषं पिनष्टीत्यादिउदकादिना पिनष्टीत्यर्थः ॥६५॥
हस्तार्थाद् ग्रहत्तिवृतः ।।४।६६।