________________
( ४५८ )
हस्ताात्करणवाचिनः परेभ्य एभ्यस्तस्यैव सम्बन्धे णम्वा स्यात् । हस्तग्राहं गह्णाति । एवं करगाहम् । हस्तवर्त वर्त्त यति । पाणिवर्त वर्तते ॥६६॥ हस्ताद-। हस्तग्राहं गृह्णातीति-हस्तेन गृह्णातीत्यर्थः । वर्तिवृत इतिवर्ततेर्ण्यन्तस्याण्यन्तस्य च ग्रहणम् ॥६६।।
बन्धेर्नाम्नि ।।४।६७। बन्धिः प्रकृति म विशेषणं च, बन्धेर्बन्धनस्य यन्नाम संज्ञा तद्विषयात्करणार्थात्पराद् बन्धेस्तस्यैव सम्बन्धे गम्वा स्यात् । क्रौञ्चबन्धम्बद्धः ॥६७॥ बन्धे०-। नाम्नोऽपि बन्धनविषयस्य व प्रत्ययार्थत्वमिष्टमिति तदुपायमाह -बन्धिरित्यादिना एकमेव पदं तन्त्रेणोभयत्रान्वेति, एकत्र च धातुनिर्देशे इ: प्रत्ययः, परत्र च तदर्थनिर्देश इति योऽर्थः सम्पन्नस्तमाह-बन्धबन्धनस्यत्योदिना । क्रौञ्चबन्धम्बद्ध इति-क्रौञ्च इतिशब्दो बन्धनामधेयः क्रौञ्चाकारो बन्धः क्रौञ्चशब्देनोच्यते, तेन बन्धेन बद्ध इत्यर्थः ।।६७॥
आधारात् ॥५॥४॥६॥ आधारार्थात्पराद् बन्धेस्तस्यैव सम्बन्धे णम्वा स्यात् । चारकबन्धम्बद्धः ॥६॥ आधाराव-। चारकबन्धम्बद्ध इति–चारके बद्धइत्यर्थः ।।६८॥
कर्तुर्जीवपुरुषान्नश्वहः ।।४।६६। आभ्यां कर्तृभ्यां परद्यथासङ्ख्यं नशेवहेश्च तस्यैव संबन्ध