SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ( ४५६ ) गान० - "गावस्नायं वृष्ट इत्यादि - - यावता गात्रं पुरुषश्च स्नाप्यते तावद्वृष्ट इत्यर्थः ।।५६ ।। 'शुष्कचूर्णरूक्षात्पिषस्तस्यैव | ५|४|६० | एभ्यो व्याप्येभ्यः परात्पिषेर्णम्वा स्यात् तस्य व धातोः सम्बन्ध । शुष्कपेषं पिनष्टि । एवं चूर्णपेषम्, रूक्षपेषम् ॥६०॥ 'शुष्कपेषं पिनष्टीति शुष्कं पिनष्टीत्यर्थः । प्रयोगानुप्रयोग क्रिययोरैक्यात् तुल्यकर्तृकत्वं प्राक्कालत्वं च नास्तीत्यत्र प्रकरणे पक्षे क्त वा न भवति । घनादयस्तु भवन्त्येव - शुष्कस्य पेषं पिनष्टि ॥ ६०॥ कृग्रहोऽकृत जीवात् । ५।४।६१। आभ्यां व्याप्याभ्यां पराद्यथासङ्ख्यं कृगो ग्रहेश्च तस्यैव सम्बन्धे णवा स्यात् । अकृतकारं करोति । जीवग्राहं गृह्णाति ॥ ६१॥ कृग्ग्रहो ० - " अकृतकारं करोतीति-अकृतं करोतीत्यर्थः । जीवग्राहं गृह्णातीति- जीवन्तं गृह्णातीत्यर्थः ॥ ६१ ॥ निमूलात्कषः | ५|४|६२ ॥ निमूलाद्याप्यात्परात्क षेस्तस्यैव सम्बन्धे णच्वा स्यात् । निमूलकाषं कषति ॥ ६२ ॥ निमूलात् ० - " निमूलमित्यतात्येऽव्ययीभावः, निर्गतानि मूलान्यस्येति बहुव्रीहि निमूसका कषतीति-निमूलं कषतीत्यर्थः । पूर्वकालाभावात् पक्ष नक्तू वा, किन्तु घत्र वेत्याह-निभूलस्य काषं कषतीति ॥ ६२ ॥ हनश्च समूलात् |५|४|६३ ।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy