________________
( ३८ )
सङ्गच्छते=सामञ्जस्यं प्राप्नोतीत्यर्थः । समृच्छिष्यते = ऋच्छ" धातुस्तीदादिकः 'ऋछत् इन्द्रियप्रलयमूर्तिभावयोः, अतरपि शिति "श्रीतिकृवु० ।४।२।१०८। इत्यनेन ऋच्छादेशविधानाद्रूप साम्यमिति ऋच्छे रभिव्यक्त्यर्थम् अशित्युदाहृतम् । संवित्त - गम्यादयो दृश्पर्यन्ताः सर्वे एव नित्यपरस्मैपदिनः तन्मध्ये विद्धातुः पठ्यते, अयं च ज्ञानार्थ एव नित्यपरस्मैपदी, सत्तायां विचारणे चाऽऽत्मनेपदी, प्राप्तावुभयपदीति, नित्यपरस्मैपदिभिः साहचर्यात् ज्ञानार्थस्यैव विदेग्रहणम् । ज्ञानार्थस्य रूपमिदमत्यस्य तु यथायथं संपूर्वस्यापि नित्यं पाक्षिकं वाऽऽत्मनेपदम् । संस्वरते = स्व शब्दोपतापयोः । अर्तीति सामान्य निर्देशात् भ्वादिरदादिश्च गृह्यते उभयोः परस्मैपदित्वेन परस्मैपदिसाहचर्यस्य नियामकत्वाप्राप्तेः । साम्यात् ह्रस्वस्यैव ग्रहणात् ऋश् गतौ इति क्रयादिस्तु न गृह्यते । अत्र सूत्रे कस्य - चित् धातोः स्वरूपेण कस्यचिद् इप्रत्ययान्तत्वेन निर्देशो दृश्यते, लाघवेन स्वरत्यत्त्र्त्योरपि तथैव निर्देशस्यौचित्ये तिवा निर्देशो यङ्लुब्निवृत्त्यर्थः । अन्यथा “प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम्” इति न्यायेन यङ्लुबन्तेऽप्यात्मनेपदप्रवृत्तिः स्यात्, ऋच्छेस्तु व्यञ्जनादित्वाभावातू यङव न भवति, यवन, कुतो लुप्, अन्येभ्यः गम्यादिभ्यस्तु यङ्लुबन्तेभ्योऽप्यात्मनेपदं भवत्येव ॥ ८४ ॥
वे:
कृग: शब्दे चानाशे | ३ | ३ |८५।
अनाशार्थाद् विपूर्वात्कृगः कर्मण्यसति शब्दे च कर्मणि कर्तर्यात्मनेपदं स्यात् । विकुर्वते सैन्धवाः । क्रोष्टा विकुरुते स्वरान् । शब्दे चेति किम् ? विकरोति मृदम् । अनाश इति किम् ? विकरोत्यध्यायम् ||८५||
विकुर्वते सैन्धवाः - सिन्धुदेशोद्भवा अश्र्वविशेषाः गतिविशेपेषु शिक्षिताः विविधमाचरन्तीत्यर्थः । क्रोष्टा विकुरुते स्वरान् = क्रोष्टा. शृगालो नानविधान् स्वरान् करोतीत्यर्थः । विकरोत्यध्यायम् = अध्यायम् अध्ययनं विनाशयतीत्यर्थः ॥ ८५ ॥