________________
'
कर्मण्यतीत्येव - तैलं सर्पिषो जानाति ॥ ८२ ॥
सर्पिषो जानीते - सर्पिषा कारणेन भोक्त प्रवर्तते इत्यर्थः " अज्ञाने ज्ञः षष्ठी ||२०| इति षष्ठी, मिथ्याज्ञानार्थो वा जानातिः सर्पिषि रागवात् द्वेषवान् वोदकादिषु सर्पिष्टया ज्ञानवान् भवतीत्यर्थः । रांगोऽत्यासक्तिः । रागाद् द्वेषाद् वा मिथ्याज्ञानं जायते । अतस्मिन् तद्बुद्धिमिथ्याज्ञानम् । उदकादी सर्पिष्ट्वरहिते सर्पिष्ट्वेन ज्ञानं मिथ्याज्ञानमे । रागो द्वेषो वा स्वविषयमेव सर्वत्र दर्शयति यथा स्त्रीरक्तस्य सर्वं जगत् तन्मयमेव प्रतिभाति, कृष्णद्वेषी कंसः सर्वत्र कृष्णमेवापश्यत् इति प्रसिद्धिरस्ति । तैलं सर्पिषो जानाति तैलं सर्पिष्टया जानातीत्यर्थः यद्यपि तैलसर्पिषोरुद्द श्यविधेयभावेन समानविभक्तित्वे तैलं सर्पिजनातीof प्रयोगो भवति अत्र तु सम्बन्धविवक्षया षष्ठी ॥ ८२ ॥
=
उपात्स्थः ।३।३।८३।
अतः वर्जण्यसति कर्तर्यात्मनेपदं स्यात् । योगे योग उपतिष्ठते । कर्मण्य सतीत्येव - राजानमुपतिष्ठति ॥ ८३ ॥
योगे योग उपतिष्ठते = इह उभयं सप्तम्यन्तं किञ्चित्पदं प्रति - योगमुपस्थितं भवतीत्यर्थः, एकं सप्तम्यन्तमपरं प्रथमान्तमिति वा एकस्मिन् योगेऽपरो योग उपतिष्ठते इत्यर्थः । उपतिष्ठते = संनिधीयते दधातेः कर्मकर्तरि, धीङ्च् अनादरे इत्यस्य वा रूपमिदम् धातूनामनेकार्थत्वेन च विवक्षितार्थलाभः । राजानमुपतिष्ठति = राजसमीपं गच्छतीत्यर्थः राज्ञः कर्मत्वान्नात्मनेपदम् ||८३||
समो गमृच्छिप्रच्छिवित्स्वरयतिदृशः | ३ | ३|८४ | संपूर्वेभ्य एभ्यः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् । सङ्गच्छते समृच्छिष्यते । संपृच्छते । संशृणुते | संवित्ते । संस्वरते । समृच्छते । समियते । संपश्यते । कर्मण्यसतीत्येव सङ्गच्छति मंत्रम् ॥८४॥