________________
भिधानमात्रमिह प्रतिपादनेच्छाविषयं न तु विमतिपूर्वकम् तेन “दीप्ति० ।३।३७८। सूत्राद्विमतिलक्षणमप्यात्मनेपदं न भवति ॥८०॥
अनोः कर्मण्यसति ।३।३।८१॥ व्यक्तवाचामर्थे वर्तमानादनुपूर्वाद् वदः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् । अनुवदते चैत्रो मैत्रस्य । कर्मण्यसतीति किम् ? उक्तमनुवदति । व्यक्तवाचामित्येद-अनुवदति वीणा ॥१॥
____ व्यक्तवाक्सहोक्तौ इति समासेन लाघवात् निर्देशे कर्तव्ये व्यक्तवाचां सहोक्ताविति व्यासेन निर्देशः तावन्मात्रस्यापि क्वचित्सम्बन्धं सूचयति तेनान व्यक्तवाचामित्येवानुवर्तते। अनुः सादृश्ये पश्चादर्थे वा। अनुवदते चैत्रो मैत्रस्य यथा मैत्रो वदति तथा चैत्रो वदतीत्यर्थः अथवा मैत्रेण पूर्वमुक्त पश्चाद् वदतीत्यर्थः । ननु लाघवानुरोधेन अनोरकर्मकान्' इत्येव सूतयतां तथा सति वद इत्यनेन सामानाधिकरण्येनान्न्योऽपि सम्पत्स्यते इति चेत्सत्यम् । कर्मण्यसतीति वैयधिकरण्येन निर्देश: उत्तरत्र सूत्रे 'शब्दे', 'स्वेङ्ग च कर्मणि इति लाघवेन प्रतिपत्त्यर्थः । अयमाशयःकर्मण्यसतीति परत्रानुवर्तते तत्र क्वचित्केवलं कर्मणि' इत्यस्य 'असति' इत्यनेनैव सम्वन्धः, क्वचिच्च तस्याऽऽवृत्त्याऽन्येनाऽपि सम्बन्धः क्तुं शक्यते यथा 'वेः कृगः शब्दे चानाशे' ।३।३।८५। 'आङो यमहनः स्वेऽङ्ग च' ।३।३।८६। इत्यनयोः सूत्रयोरनुवृत्तं कर्मण्यसतीति परद्वयं सम्बध्यते, अथ च तत्रत्य 'कर्मणि' इत्यावृत्तं सत् 'शब्दे' इत्यनेन 'स्वेऽङ्गे' इत्यनेन च सम्बध्यते । शब्दरूपे कर्मणि च सति, स्वाङ्गरूपे कर्मणि च सति इत्यप्यों प्राप्यते । अत्राकर्मकादित्युक्तौ तु तत्रापि शब्दकर्मकाद् स्वाङ्गकर्मकादिति च निर्देशः कर्तव्यः स्यात् इति गौरवरूपो दोषः प्रसज्येतेति प्रकृतनिर्देश एव लाघवम् । तथा च कर्मण्यसतीति व्यधिकरणमेव धातूनामिहोपात्तम् ।।८१॥
ज्ञः ।३।३।२। जानातेः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् । सर्पिषो जानीते ।