________________
व्यक्तवाचां सहोक्तौ ।३।३।६। व्यक्तवाचो रुढया मनुष्यादयस्तेषां सम्भूयोच्चारणार्थाद् वदः कर्तर्यात्मनेपदं स्यात् । संप्रवदन्ते ग्राम्याः। व्यक्तवाचामिति किम् ? संप्रवदन्ति शुकाः। सहोक्ताविति किम् ? चैत्र णोक्त मैत्रो वदति ॥७॥
• व्यक्ता व्यक्ताक्षरा वाग्येषां ते व्यक्तवाच: । न ध्वनिमात्रस्य व्यक्तत्चेत व्यक्तवाक्त्वस्वी क्रियते किन्तु येषां वाचि कादिवर्णाः स्फुटं प्रतीयन्ते ते एव व्यक्तवाचः इति कथ्यन्ते । ननु पक्ष्यादिशब्देष्वपि लोकैस्तत्तदक्षरव्यक्ति-भावस्यानुभीयत्वात् शुकादीनां वाच्यपि स्फुटतरवर्णोपलव्धेः सर्वेषामपि जीवानां व्यक्तवाक्त्वं स्यादिति चेत्सत्यमत, एवोक्त रुढ्या मनुष्यादयः। किञ्च शुकादीनां वाचि अकारादयो वर्णा अपि व्यक्ता भवन्ति अत एव कुक्कुटेनोक्त कुकू डति वदति, कोकिलोक्त कुरिति वदति इत्येवं जनाः कथयन्ति। यदि कादिवर्णव्यक्तिस्तत्र न स्याहि कथमेवमुक्तिः सङ्गच्छेतेति व्यक्ताक्षरा वाग्येषामिति कथनधि न निस्तार इति. मनुष्यादियु कढिराश्रिताः । सहोक्तौ सम्भूय बहुभिमिलित्वा शब्दोच्चारणे । सम्प्रवदन्ते सम्भूय भाषन्ते इत्यर्थं ॥७६।।
विवादे वा ।३।३।१०। विरुद्धार्थो वादो विवादः व्यक्तवाचां विवादरूपसहोक्त्यर्थांद् वदः कर्तर्यात्मनेपदं स्यात् । विप्रवदन्ते, विप्रवदन्ति वा मौहूर्ताः । विवाद इति किम् ? संप्रवदन्ते वैयाकरणाः। सहोक्तावित्येवमौहूर्तो मौहूर्तेन क्रमाद् विप्रवदति ॥८०॥
तत्त्वनिर्णयायकत्र विषये परस्परविरुद्धा अर्था अभिधेया यत्र स विरुद्धार्थो वादः वाक्प्रयोगो विवाद इत्यर्थः । विप्रवदन्तें विप्रवदन्ति वा मौहूर्ताः एकेऽपरेषां मतं प्रतिषेधयन्तः युगपद्विरुद्धं वदन्तीत्यर्थ । सम्प्रवदन्ते वैयाकरणाः सम्भूय वदन्तीत्यर्थः । ‘क्रमाद् विप्रवदति विरुद्धा