________________
( ३४ )
प्रसहन इति पदाभावे च स्यादेवेत्याशयः ॥७७॥
दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे वदः ।३।३।७८। एष्वर्थेयु गम्येषु वदःकर्तर्यात्मने पदं स्यात् ।दीप्तिर्मासनम् । वदते . विद्वान् स्याद्वादे । ज्ञाने-वदते धोमांस्तत्त्वार्थे । यत्ने-तपसि वदते । नानामतिविमतिः-धर्मे विवदन्ते । उपसंभाषा-उपसान्त्वनम् । कर्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनम्-कुल भार्यानुपवदते ॥७॥
- दीप्तिर्मासनम् मुखविकासादिना शोभमानत्वमिति भावः । वदते विद्वान् स्याद्वादे सम्रज्ञानादनाकुलकथनाच्च विकसितमुखत्वात् दीप्यमानो विद्वान् स्याद्वादविषये वदते । विकसितमुखत्वे च हेतुद्वयमुपात्तं सम्यग्ज्ञानादनाकुल-कथनाच्च बिषयमसम्यग्जानानो हि सन्दिग्धमना: संकुचितमुखो भवति, परप्रतारणार्थं यथाकथंचित्स्त्रमतप्रतिपादनार्थं वा वदन्नपि विषयसम्यग्ज्ञानाभावात् स्वनिग्रहं शङ्कमानो विवर्णभुखो भवत्येवेति मुखविकासाय सम्यग्ज्ञानमावश्यकम् । सम्यग्जानानोपि सम्यक्प्रतिपादयितुमशक्तो विवर्णमुखो भवतीत्यतः उक्तमनाकुलकथनाच्चेति । अनाकुलमसंकीर्णं यथा स्यात्तथा कथनात्प्रतिपादनाच्च विकसितमुखत्वम् । ज्ञानमवबोधः-विषयस्य यथार्थाधिगतिरवबोधः, वदते धीमस्तित्त्वार्थ == ज्ञाल्वा वदतीत्यर्थः । यत्नः--उत्साहः, स्थेयान संरम्भ, कस्वापि कार्वम्य कृते स्थिरतमं प्रावीण्यमिति यावत् । तपसि वदतेतद्विषयकमुत्साह वाचाऽऽविष्करोति । नानामतिविमतिः एकत्र धर्मिणि विभिन्नप्रकारा प्रतिपत्तिरित्यर्थः । धर्म विवदन्ते विमतिपूर्वकं विचित्रं भाषन्ते, विविध मन्यन्ते इतिवार्थः । उपसंभाषा=उपसान्त्वनम् केनापि कारणेन पीडितमनस सन्तोषाय वाक्प्रयोग एवोपसान्त्वनम् । कर्मकरानुपवदते=पूर्व . स्वेनैव भत्सितान् तान् उपसान्त्वयति, साम्ना प्रकृतिस्थान् करोतीत्यर्थः । उपमन्त्रणम् = रहस्युपच्छन्दनम्, आनुकूल्येनोपलोभनमुपच्छन्दनम् कुलभार्यामुपवदते= रहस्युपलोभयतीत्यर्थः ।।७८॥