________________
घाटय तत्पारप्रदर्शनारिहय, तदीयापकाराय च तत्रेह द्वितीया कोटि हीतुमभिलषितेत्याह-द्रोहेण । दुर्वृत्ताः दुश्चरित्रा जना: तानवकुरुते == कुत्सयतीत्यर्थः । सेवा अनुवृत्तिः, आनुकुल्येनाऽऽचरणं प्रीत्यनुकूलव्यापार इति यावत् । प्रकुरुते विनिपातमविभाव्य तानभिमच्छतीत्यर्थः, विनिपातः ऐहिकं दुर्यशः, आमुष्मिकं नरकप्राप्त्यादिः तमविभाव्य अनेन कर्मणा मे विनिपातो भविष्यतीत्यविमृश्य तान् परदारान् अभिगच्छति स्ववशे करोतीत्यर्थः । प्रतियत्नः स्वेन रूपेण वर्तमानस्य वस्तुनो गुणान्तरस्य पूर्णगुणापेक्षयाऽन्यगुणस्याऽऽधानम् उत्पादनमित्यर्थः स्वरूपप्रच्युतस्य दुग्धादेर्दध्यादिरूपेण परिणमनं न प्रतियत्नः इति बोधयितु स्वेन रूपेण वर्तमानस्येति ज्ञेयम् । एध इत्यकारान्तशब्दः काष्ठवाची',एधचोदकं चंधोदकं तस्य एधोदकस्योपस्कुरुते, अथवा एधसिति सकारान्तः शब्दः काष्ठवाची, दकमिति उदकनाम "प्रोक्त प्राज्ञैर्भू वनविदितं जीवनीयं दकं च" इति वचनात् एधश्च दकं चैधोदकं तस्येति । प्रकथनं कथनप्रारम्भः, प्रकर्षण कथनं वा कस्यचिद्वस्तुनः सम्यक्तया प्रतिपादनमिति यावत् । जनवादान् प्रकुरुते कथयितुमारभते प्रकर्षेण कथयति वेत्यर्थः उपयोगः प्रयोगस्वाभावात् धर्मादिकृत्ये विनियोग एवोपयोगशब्देन प्रसिद्धः । शतं प्रकुरुते अब प्रशब्दमहिम्ना आत्मनेपदेन च धर्मकृत्ये विनियुक्त व्ययतीत्यर्थः ॥७६।।
अधेः प्रसहने ।३।३।०७। अधेः परात्कृगः प्रसहनार्थात्कर्तर्यात्मनं स्यात् । प्रसहनं पराभिभवः परेण पराजयो वा । तं हाधिचक्रे प्रबहन इति किम् ? तमधिकरोति ॥७७॥
प्रसहनं पराभिभवः परेणापराजयो वा। परस्य शत्रोरभिभवः तिरस्कारः, परेणापराजयः स्वकीयाभिभवाभाव एव । पूर्वत्र परस्मादुत्कृष्टत्वं परत्न तस्मादनपकृष्टत्वं प्रतीयते इति विशेषः । हाधिचके तमिति प्रक्रान्तं परमुपस्थापयति ह इत्यव्ययम् । तं प्रसेहे तमभिभूतवान् तेन वा न पराजित इति यावत् । तमधिकरोति-प्रक्रान्तं कञ्चित् कस्मिांश्चद. नियोजयतीत्यर्थप्रतीत्या प्रसहनार्थाभावे नात्रात्मनेपदम्,