________________
( ३२ )
___यत् पूर्वस्य धातोरनुबन्धेनोपपदेनार्थविशेषेण वाऽऽत्मनेपदं दृष्टं तत् सन्नन्तादतिदिश्यते । शीङ् शेते शिशयिषते। सचिचरिषते="सम- . स्तृतीयया" ।३।३।३२। इत्यात्मनेपदम् ।।७४॥
आमः कृगः ॥३॥३७॥ आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव कर्तर्यात्मनेपदं स्यात् । भवति न भवति चेति विधिनिषेधावतिदिश्यते । ईहांचक्रे । बिभराञ्चकार । कृग इति किम् ? ईक्षामास ॥७॥
यद्याम्प्रकृतिभूताद् धातोरात्मनेपदं भवति तदा ततोऽनुप्रयुज्यमानात् करोतेरप्यात्मनेपदं भवति यदि चाम्प्रकृतेरात्मनेपदं न भवति तदाऽनुप्रयुज्यमानात् कृगोऽपि तन्न भवतीति फलितार्थः । ईहाञ्चक्रे= ईहिधातुरिदित्त्वादात्मनेपदी ततः परात् आमः परात्कृगोऽफलवत्त्यपि आत्मनेपदं भवति । अन्यथा कृगः गित्त्वात् फलवत्यात्मनेपदं स्यादफलवति च परस्मैपदं स्यात् । विभयाजकारेति इह फलवत्यप्यात्मनेपदं न भवति । यत्र तु पूर्वस्मादुभयं तत्र फलवत्यफलवति चोभयं भवति ।।७५॥
गन्धनावक्षेपसेवासाहसप्रतियनप्रकथनोपयोगे ।३।३।७६। एतदर्थत् कृगः कर्तर्यात्मनेपदं स्यात् । गन्धनं द्रोहेण परदोषोद्घाटनम् । उत्कुरुते । अवक्षेपः कुत्सनम् । दुर्वृत्तानवकुरुते । सेवा महामात्रानुपकुरुते । साहसमविमृश्य प्रवृत्तिः-परदारान् प्रकुरुते । प्रतियत्नः गुणान्तराधानम् । एधोदकस्योपस्कुरुते । प्रकथनम्जनापवादान प्रकुरुते । उपयोगो धर्मादौ विनियोगः-शतं प्रकुरुते ॥७६॥
परदोषोद्घाटनं द्विधा परस्य सन्मार्गोपदेशाय तदीयदोषानुद्