________________
( ३१ )
कर्म सशुश्रूषते शब्दानित्यत्र शब्दशक्तिस्वाभाव्यात् श्रोतुमिच्छतीत्यर्थः 110911
स्मृदृशः । ३।३।७ ॥
आभ्यां सन्नन्ताभ्यां कर्तर्यात्मनेपदं स्यात् । सुस्मूर्षते । दिदृक्षते
॥७२॥
सुस्मृते विवृक्षते - "स्व रहनगमो० |४|१|१०४ | इति दीर्घः ।" नामिनोऽनिट् | ४ | ३ | ३३ | " उपान्त्ये” | ४ | ३ | ३ ४ | इति द्विद्भावः ॥७२॥
शको जिज्ञासायाम् | ३ | ३॥७३॥
शको ज्ञानानुसंहितार्थात्सन्नन्तात् कर्तर्यात्मनेपदं स्यात् । विद्यां शिक्षते । जिज्ञासायामिति किम् ? शिक्षति ॥७३॥
ज्ञानानुसंहितार्थादिति - ज्ञानसंबद्धार्थादित्यर्थः । विद्याः शिक्षते 'विद्या: ज्ञातु ं शक्नुयां शक्तिर्मे स्यादितीच्छतीत्यर्थः । 'शिक्षि विद्योपादाने ' इत्यनेनैव सिद्धे आमनुप्रयोगार्थं वचनम् तेन शिक्षांचक्रे इति भवति न तु शिक्षांचकारेति । अयमाशय: - शिक्षिधातुरिदित्त्वादात्मनेपदी तस्यैकस्वरत्वादाम् न भवति किन्तु शक्धातोः सनि शिक्षधातोरनेकस्वरत्वादामः प्रयोगे शकधातोरिदित्त्वाभावात् प्राग्वत् | ३ | ३|७४ | इति परस्मैपदम् ततः आमि” आमः कृगः । ३।३।७४ | इति परस्मैपदमेव स्यात् तद्वारणार्थमात्मनेपदं विधीयते ॥७३॥
प्राग्वत् ।३।३।७४ |
समः पूर्वो यो धातुस्तस्मादिव सन्नन्तात्कर्तर्यात्मनेपदं स्यात् । शिशयिषते । अश्वेन संचिचरिषते ॥७४॥