________________
( ३० )
शतं संजानीते--अवेक्षते इत्यर्थः, सम्यक्प्रकारेण ज्ञानमेवावेक्षापदार्थः । “समोऽज्ञोऽस्मृतौ वा । २ २ ५१ | इति विकल्पेन तृतीया भवति । शतं प्रतिजानीते - अभ्युपगच्छतीत्यर्थः शतमहं दास्यामीति स्वीकरोतीत्यर्थः । मातुः संजानाति - स्मरतीत्यर्थः ।” “स्मृत्यर्थदयेशः । २।२।११। इति विकल्पेन कर्म कर्मत्वाभावपक्षे" शेषे | ३|२|| इति षष्ठी, सति कर्मत्वे द्वितीयाऽपि भवति । ननु कर्मत्वाभा वपक्षे 'ज्ञः | ३ ३ ८१ । इत्यात्मनेपदेन भाव्यमिति “ मातुः संजानीते” इति स्यादिति चेन्न कर्मण्य - सतीति कथनेन सर्वथा कर्माभाववत एवात्मनेपदविधानादस्य च पाक्षिककर्मणः सत्त्वात् कर्मात्यन्ताभावत्वं नास्तीत्यदोषात् ॥ ६६॥
अननोः सनः | ३ | ३।७० ।
सन्नताज्ज्ञः कर्तर्यात्मनेपदं स्यात् न त्वनोः परात् । धर्मं जिज्ञासते । अननोरिति किम् ? धर्ममनुज्ञातति ॥ ७० ॥
धर्मं जिज्ञासते -- सकर्मकत्वेन ज्ञः | ३ | ३ |२| इत्यनेनात्मनेपदाप्राप्तेः 'प्राग्वत्' | ३ | ३|७४ । इत्यनेनात्र न सिद्धिरिति सूत्रारम्भः । किंच फलवति कर्तरि 'ज्ञोऽनुपसर्गात् | ३ | ३|६६ | इत्यनेन केवलादात्मनेपदस्य विहितत्वेन सन्नतात् 'प्राग्वत् | ३ | ३|६६ । इत्यनेनैव सिद्धिरिति धर्मं जिज्ञासते इत्यादिप्रयोगसिद्धाविदं सूत्रमफलवदर्थम् । धर्ममनुजिज्ञासतीतिइह फलवत्यपि कर्तर्यात्मनेपदं न भवति सोपसर्गत्वेन 'अनुपसर्गाज्ञः | ३ | ३ | ६६। इत्यस्याप्राप्तेः ।।७०ll
शृवोऽनाङ्प्रतेः । ३।३।७१ ।
सन्नन्ताच्छृणोतेः कर्तर्यात्मनेपदं स्यात् न त्वाप्रतिभ्यां परात् । शुश्रूषते गुरून् । अनाप्रतेरिति किम् ? आशुश्रूषति । प्रतिशुश्रूषति ॥ ७१ ॥
शुश्रूषते - शब्दशक्तिस्वाभाव्यादत्र सेवितुमिच्छतीत्यर्थः । शब्द