SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ . ( २६ ) समो गिरः ।३।३।६६। संपूर्वाद् गिरः प्रतिज्ञार्थात् कर्तर्यात्मनेपदं स्यात् । स्याद्वाद सङ्गिरते ॥६६॥ ___ स्याद्वादं संगिरते प्रतिजानीते इत्यर्थः । स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः स्याद्वादः स एव सप्तभङ्गीपदेन व्यवह्रियते । “ऋतां ङ्कितीर् ।४।४।११६। इतीरादेशयुक्तस्य गिर इति निर्देशात् गृणातेर्ग्रहणं न भवति ॥६६॥ अवात् ।३।३।६७। अवागिरः क्र्तर्यात्मनेपदं स्यात् । अवगिरते ॥६७॥ .पृथग्योगात् प्रतिज्ञायामिति निवृत्तम् तथा चावपूर्वकादगिरतेरर्थविशेषानपेक्षमात्मनेपदमनेन विधीयते । अवादन्यत्र गिरति ॥६७॥ निन्हवे ज्ञः ॥३॥३॥६॥ निह्नवोऽपलापस्तद्वत्तेजः कर्तर्यात्मनेपदं स्यात् शतमपजानीते ॥६॥ . निह्नवः अपलापः, छलेन गोपनम् कृतस्यास्वीकारो वा । शतमपजानीते-अपह्न ते इत्यर्थः, पूर्वेण गृहीतं शतसंख्यकं द्रव्यं मया न गृहीतमिति कथयतीति भावः । अपेन जानातेनिह्नवरूपोऽर्थो द्योत्यते ॥६॥ संप्रतेरस्मृतौ ॥३॥३॥६६॥ स्मृतेरन्यात्संप्रतिभ्यां परात् ज्ञः कर्तर्यात्मनेपदं स्यात् । शतं संजानीते । प्रतिजानीते । अस्मृताविति किम् ? मातुः संजानाति ॥६६॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy