SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ( २८ ) एभ्यः परात्स्थः कर्तर्यात्मनेपदं स्यात् । संतिष्ठते । वितिष्ठते । प्रतिष्ठते । अवतिष्ठते ॥६३॥ संतिष्ठते आरोहावरोहादिक्रमेण वर्तते इत्यर्थः वितिष्ठतेप्रकारभेदेन वर्तते इत्यर्थः । प्रतिष्ठते-प्रवसतीत्यर्थः । अवतिष्ठते कयाचिंदनवस्थया वर्तते इत्यर्थः ॥६३॥ ज्ञीप्सास्थये ।३।३।६४। ज्ञीप्सा आत्मप्रकाशनम् । स्थेयः सभ्यः । जीप्सायां स्थेयविषयार्थे . च वर्तमानात् स्थः कर्तर्यात्मनेपदं स्यात् । तिष्ठते कन्याच्छात्र। भ्यः । त्वयि तिष्ठते विवादः ॥६४॥ . - परपरितोषार्थमात्मरूपादिप्रकाशनं ज्ञीप्सा । तिष्ठन्त्यस्मिन्निति स्थेयः रूढिवशाद् विवादपदे निर्णता प्रमाणभूतः पुरुषः उच्यते । “य एच्चातः" ।।१।२८। इति भावकर्मणोविहितो यप्रत्ययो बाहलकादत्राधिकरणे । तिष्ठते कन्या च्छात्रेभ्यः-स्वाभिप्रायप्रकाशनेनात्मान रोचयतीत्यर्थः । त्वयि तिष्ठते विवाद:-त्वां विवादे निर्णेतृत्वेनाश्रयति ॥६४॥ प्रतिज्ञायाम् ।३।३॥६५॥ अभ्युपगमार्थात् स्थः कर्तर्यात्मनेपदं स्यात् नित्यं शब्दमातिष्ठते । ॥६५॥ प्रतिज्ञा अभ्युपगमः, तथात्वेन स्वीकार इति यावत् । नित्यं शब्दमातिष्ठते-वैयाकरणः शब्दं नित्यत्वेनाभ्युपगच्छति, तदपेक्षयाऽयं प्रयोगः नित्यत्वेन प्रतिजानीते इत्यर्थः । स्वभावाच्चाङ्पूर्व एव प्रतिज्ञायां वर्तते । योगविभाग उत्तरार्थः । उत्तरसूत्रे केवलं प्रतिज्ञार्थस्य सम्बन्धो यथा स्यान्न तु जीप्सास्थेथयोरिति । अन्यथा “एकयोगनिर्दिष्टानां सहैव प्रवृत्तिः सहैव निवृत्तिः” इति सर्वेषामनुवृत्तिः स्यातू ॥६५॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy