SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ( २७ ) उप सामीप्येन श्ल ेषः संमीलनमुपश्लषः सम्बन्धविशेषः एवं च नात्र मित्रं तु मित्रतया वा सम्बन्धोऽपितु सामीप्यमानं विवक्षितमिति मैत्रीतो भिन्नः । यमुना गङ्गामुपतिष्ठते - गङ्गाप्रवाहे यमुनाप्रवाहः संश्लिष्ट इति गङ्गायमुनयोः सङ्गमो वृत्तः । अत्र यमुना गङ्गया सङ्गच्छते इत्यर्थप्रतीतेः सङ्गमार्थे आत्मनेपदम् । क्वचिद् गङ्गा यमुनामुपतिष्ठते इत्युदाह्रियते, तत्र यमुनैव प्रथमं तत्त्रागता पश्चाद् गङ्ग ेति प्रतीतिरिति भेदः । पन्थाः कर्त्ता यस्यार्थस्य स पथिकर्तृ कस्तत्र तस्मिन् स्रुघ्नमुपतिष्ठते पन्थाःस्रुनो नाम देशः अयं पन्थाः स्रुघ्नं प्रति गच्छतीत्यर्थः पथः कर्तृ त्वादात्मनेपदम् । ऐन्द्रा गार्हपत्यमुपतिष्ठते - इन्द्रो देवताऽस्या सा ऐन्द्री ऋक् गृहपतिना संयुक्तः = गार्हपत्योऽग्निः ऐन्घ्रा ऋचा मन्त्रविशेषेण गार्हपत्यनामानमाग्नि स्तोतीत्यर्थः ॥ ६०॥ वा लिप्सायाम् | ३ | ३ | ६२ ॥ उपात्स्थो लिप्सायां गम्यमानायां कर्तर्यात्मनेपदं स्याद्वा । भिक्षुदतृकुलमुपतिष्ठते, उपतिष्ठति वा ॥ ६१ ॥ भिक्षोचितेऽहं भिक्षां लभेयेति लिप्सा वर्तते ॥ ६१ ॥ उदोहे | ३ | ३ |६२ | अनुर्ध्वा या चेष्टा तदर्थात् उत्पूर्वात्स्थः कर्तर्यात्मनेपदं स्यात् । मुक्ताबुत्तिष्ठते । अनुद्धेति किम् ? आसनादुत्तिष्ठति । इहेति किम् ? ग्रामाच्छतमुत्तिष्ठति ॥ ६२ ॥ मुक्तावुपतिष्ठते मुक्त्यर्थं चेष्टते इत्यर्थः शतमुत्तिष्ठतिउत्पद्यते इत्यर्थः, अस्माद् ग्रामाच्छतं रूप्यकाणि कररूपेणोत्पद्यन्ते इति भावः ॥६२॥ संविप्रावात् । ३।३।६३।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy