________________
( २६ )
उपाद् यमेः स्वीकापार्थात्कर्तर्यात्मनेपदं स्यात् । कन्यामुपयच्छते। उपायंस्त महास्त्राणि । विनिर्देश इति किम् ? शाटकानुपयच्छति ॥५६॥
स्वीकारार्थादिति-उपोसर्गवशादेवास्य स्वीकारार्थे वृत्तिः, धातु पाठे तु ‘यमूउपरमे' इति पठ्यते, उपरमश्च कार्यनिवृत्तिरेव । उपसर्गवशाच्च धात्वर्थोऽत्यन्त-भिन्नोऽपि भवति । उक्त च- "उपसर्गेण धात्वर्थो, बलादन्यत्र नीयते।
प्रहाराऽऽहार-संहार-विहार-परिहारवत् ॥" कन्यामुपयच्छते-कुमारी' भार्यात्वेन स्वीकरोतीत्यर्थः । उपायंस्त महास्त्राणि-युद्धार्थं महास्त्राणि स्वायत्तानि अकार्षीदित्यर्थः । शाटकानुपयच्छति-नात्रास्वं स्वं क्रियते किन्तु स्वत्वेन निश्चितस्य ग्रहणमिति नात्मनेपदम् । स्वीयत्वेन निश्चितान् शाटकान् गृह्वातीत्यर्थविवक्षायामयं प्रयोगः ॥५६॥
देवा मंत्रीसहमपथिकर्तृ कमन्त्रकरणे स्थः।३।३।६०॥
एतदर्थादुपपूर्वा-तिष्ठतः कर्तर्यात्मनेपदं स्यात् । देवार्चा । जिनेन्द्रमुपतिष्ठते । मैत्री-रथिकानुपतिष्ठते । सङ्गमः-यमुना गंगामुपतिष्ठते । पन्थाः कर्ता यस्य तत्र । स्त्र नमुपतिष्ठते पन्थाः । मन्त्रः करणं यस्य-ऐन्द्याः गार्हपत्यमुपतिष्ठते ॥६०॥
देवर्मिका देतसम्बन्धिनी वाऽर्चा पूजा=देवार्चा। जिनेन्द्रमुपतिष्ठते-जिनेन्द्र स्रोतुं स्रक्चन्दनगन्धाद्यैः पूजयितुं वातस्य समीपं यातीत्यर्थः । मैत्री -मित्रस्य भावो मैत्रीतीह नार्थः किन्तु मित्रतयाऽऽचरणं मित्रं कतुवाऽऽचरणमिह मैत्रीशब्दार्थः । सा मैत्री उपस्थानस्य तदाराधनस्य तत्समीपगमनस्य वा हेतु: मैत्रीनिमिनत्वादुपस्थानस्य । यत्र च मैत्री न पूर्ववृत्ताऽपितु कर्तव्या तत्र फलं सेति । रथिकानुपतिष्ठते- रथिकाः रथारूढाः तान् मित्रत्वेन स्वीकर्तुमाराधयति तत्समीपं वा गच्छतीति, मित्रतयाऽऽराधयति तत्समीपं वा गच्छतीति वार्थः । सङ्गमः उपश्लषः