________________
[ २५ )
आकारयतीत्यर्थः, आकारणमाह्वानमेव, मल्लो मल्लान्तरमभिभवितु शब्दायते इति भावः तथा च पराभिभवेच्छाया गम्यमानत्वेनाकर्तृ गेऽपि फले भवत्यात्मनेपदम् । स्वाभावात् आपूर्वकस्य ह्वयतेः धातोरर्थः शब्द एव ॥५६॥
सन्निवः ।३।३।५७॥ एभ्यो ह्वयते कर्तर्यात्मनेपदं स्यात् । संह्वयते, निह्वयते, विह्वयते
॥५७॥
उपसर्गत्रयसमाहारः, सौत्रं पुस्त्वम्, उपसर्गान्तरोपादानादाङ: इति निवृत्तम् । स्पर्द्ध इत्यस्यासम्बन्धार्थं योगविभागः । हगो गित्त्वेन फलवत्कर्तर्वात्मनेपदसिद्धेरफलवदर्थ अयमारम्भः । तथा चैन्य उपसर्गेभ्यः पराद् ह्वयतेः सर्वथाऽऽत्मनेपदमेव न परस्मैपदमिति फलति ॥५७।।
उपात् ।३।३।५८. उपाद् ह्वयतः कर्तर्यात्मनेपदं स्यात् । उपह्वयते ॥८॥
योगविभाग उत्तरार्थः । उत्तरत्र “यमः स्वीकारे ।३।३।५६। सूत्रे उपादित्येतावन्मात्रस्य सम्बन्धो यथा स्पान्न तूपसर्गचतुष्टयस्येतदर्थमुपादित्यस्य पृथक्सूत्रकरणम् अन्यथा एकयोगनिर्दिष्टानां सहैव प्रवृत्तिः सहैव निवृत्तिरिति न्यायेन सर्वेषामेवोत्तरसूत्रेऽनुवृत्तिः स्यात् सा च नेष्टेति । यद्यपि "क्वचिदेकदेशोऽप्यनुवर्तते" इत्यपि न्यायोऽप्यस्ति तथा चाचार्यरेकदेशानुवृत्तिरपि व्याख्यातु शक्यते एव तथापि सति गमके, असति च गत्यन्तरे क्वचिदेकदेशानुवृत्तिरपि व्याख्यायते न सर्वत्रेति । "व्याख्यानाद्वरं करणम्” इति न्यायानुसारं पृथग्योगारम्भ एव कृत इत्यवधेयम् ॥५७।।
यमः स्वीकारे ३३३४५६