________________
( २४ )
नुप्रच्छः ॥३॥३॥५४॥ आयूर्वान्नौतेः प्रच्छेश्च कर्तर्यात्मनेपदं स्यात् । आनुते शृगालः । आपृच्छते गुरून ॥५४॥
आनते शगाल इति-उत्कण्ठितः शब्दं करोतीत्यर्थः । शब्दानशासनस्य शब्दशक्तिस्वाभाव्यानुवादित्वात् उत्कण्ठापूर्वके संशब्दे एव नौतेरयं विधिः न सर्वत्र । आपृच्छते गुरुन्–वियुज्यमानः शिष्यः स्वगमनानुमति याचते इत्यर्थः ॥५४॥
गमेः क्षान्तौ ॥३॥३॥५५॥ कालहरणार्थाद् गमयतेराङ्पूर्वाकर्तर्यात्मनेपदं स्यात् । आगमयते गुरुम् - कञ्चित्कालं प्रतीक्षते । क्षान्ताविति किम् ? विद्यामागमयति ॥५५॥
शान्तिः सर्वत्र सहनार्थे प्रसिद्धा प्रकृते शब्दशक्तिस्वाभाव्यादर्थान्तरे रूढेत्याह-कालहरणार्थादिति । कालहरणं प्रतीक्षार्थ समययापनमित्यर्थः । ननु गमेरिति सामान्येन निर्देशेपि ण्यन्त एवं कथमुदाहृतः इति चेत्सत्यम् क्षान्ती स्वाभाव्याद गतिय॑नत एव प्रवर्तते । विद्यामागमयतिगृह्वातीत्यर्थः, गुरुसकाशाद् विद्यां गृह्वातीत्यर्थः, गमेर्ण्यन्तस्य क्षान्तावेव प्रयोग इति न नियमः किन्तु अधिगती ग्रहणेऽपि तस्य प्रयोगस्य दृष्टतया तत्रात्मनेपदाप्रवृत्त्यर्थ क्षान्तावित्यस्याऽऽवश्यकतेति भावः ॥५५॥
हवः स्पः ।३।३॥५६॥
आपति ह्वयतः स्पद्धे गम्ये कर्तर्यात्मनेपदं स्यात् । मल्लो मल्लमाह्वयते । स्पर्द्ध इति किम् ? गामाह्वयति ॥५६॥
स्पर्धः संघर्षः पराभिभवेच्छा । मल्लो मल्लमाह्वयते-स्पर्धमान