________________
( २३ )
उपक्रमते भोक्तम् । आरम्भ इति किम् ? प्रक्रामति यातीत्यर्थः
॥५१॥
प्रक्रमते उपक्रमते भोक्तम्=आरभते इत्यर्थः ॥५१॥
आङो ज्योति रुद्गमे । ३ । ३ । ५२ ।
आङः
परात्क्रमेश्चन्द्राद्युद्गमार्थात्कर्तर्यात्मनेपदं स्यात् । आक्रमते चन्द्रः सूर्यो वा । ज्योतिरुद्गम इति किम् ? आक्रामति बटुः कुतुपम् | धूम आक्रामति ॥ ५२॥
=
ज्योतिरुद्रमे - चन्द्रादीनामूर्ध्वं गमने इत्यर्थः । आक्रमते चन्द्रः सूर्यो वाउदयते इत्यर्थः । आक्रामति - अवष्टभ्नातीत्यर्थः । अत्र क्रमिर्न उद्गमे वर्ततेऽपि तु अवष्टम्भे वर्तते । धूम आक्रामति – उद्गच्छतीत्यर्थः । अत्र यद्यपि उद्गमोऽस्ति तथापि ज्योतिष उद्गमाभावान्न भवति ||५२ ||
दागोऽस्वास्यप्रसारविकाशे | ३ | ३|५३ |
स्वास्यप्रसारविकासाभ्यामन्यार्थादाङपूर्वाद्दागः कर्तर्यात्मनेपदं स्यात् । विद्यामादत्ते । स्वास्यादिवर्जनं किम् ? उष्ट्रो मुखं व्याददाति, कूलं व्याददाति ॥५३॥
फलवतोऽन्यत्त्रायं विधिः । स्वास्यप्रसारश्च विकाशश्च स्वास्यप्रसारविकाशं तस्मिन् । उष्ट्रोमुखं व्यादत्त - प्रसारयतीत्यर्थः । कूलं व्याददाति — विकसतीत्यर्थः । केचित्तु विकासपदेऽपि प्रयोजकरूपेणैव व्याचक्षते यतो व्याङ्पूर्वकस्य ददातेः सर्वत्र सकर्मकत्वेनैव प्रयोगस्य दर्शनान्तस्याकर्मकत्वे मानाभावः । तथा च कूलं व्याददातीत्यत्र नदीप्रवाहः कर्त्ता कूलं कर्मविकासयतीत्यर्थः इत्याहुः एतन्न रुचिकरं प्रयोगवशाद् व्याङ्पूर्वकस्य ददातेः सकर्मकत्वमकर्मकत्वं च सम्भवतीति ॥५३॥