________________
( २२ )
विशेषाः क्रमन्ते स्फीततां यान्ति प्रवर्द्धन्ते इत्यर्थः ॥४८॥
परोपात् ॥३॥३॥४६॥ आभ्यामेव परात् क्रमेर्वृत्त्याद्यर्थात्कर्तर्यात्मनेपदं स्यात् । पराक्रमते, उपक्रमते । परोपादिति किम् ? अनुक्रामति । वृत्त्यादावित्येव-पराक्रामति ॥४६॥
कृप मादविक्षेपे भ्वादिः ॥४॥
वेः स्वार्थे ।३।३॥५०॥
स्वार्थः पादविक्षेपस्तदर्थाद्विपूर्वात्क्रमेः कर्तर्यात्मनेपदं स्यात् । साधु विक्रमते गजः । स्वार्थ इति किम् ? गजेन विक्रामति ॥५०॥
स्वस्यार्थः स्वार्थस्तत्र स्वार्थे । स्वपदेनात्मनेपदप्रकृति-भूतस्य क्रमेर्ग्रहणम् । साधु विक्रमते गजः–अत्र गजः सम्यक् पादविक्षेपं करोतीत्यर्थस्य विवक्षितत्वेन स्वार्थे प्रयोगसत्त्वाद् भवत्यात्मनपदम् । गजेन विक्रामति-करणभूतेन गजेन स्थानान्तरं प्राप्नोतीत्यर्थः । नन्वत्र गणकरणस्थानान्तरप्राप्तिः सापि पादविक्षेपकृतैवेति धातौः स्वार्थे एव प्रयोग इति कुतो न भवत्यात्मनेपदमिति चेत् सत्यं प्रथमं कर्तृव क्रियायाः सम्बन्धः, करणादिभिश्च परम्परया सम्बन्धः कर्तु रेव करणादिप्रयोक्तृत्वात् तथा च कारकेषु कर्तु रेव प्राधान्यमिति प्रधानकर्तृ कृत एव पादविक्षेपो ग्राह्यः अत्र तु प्रधानकर्तुः स्थानान्तरप्राप्तिरेव पादविक्षेपस्तु करणभूतस्य गजस्येति न भवत्यात्मनेपदम् ॥५०॥
प्रोपादारम्भे ॥३॥३॥५१॥
आरम्भार्थात्प्रोपाभ्यां परात्क्रमेः कर्तर्यात्मनेपदं स्यात् । प्रक्रमते,