SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ( २१ ) कृपः श्वस्तन्याम् | ३ | ३ |४६ | कृपः श्वस्तीविषये कर्तर्यात्मनेपदं वा स्यात् । कहप्तासि, वहितासे ॥४६॥ कृप्धातुर्वृ' तादावन्तर्गतः कल्प्तासि कल्पितासे इति -- परस्मैपदाऽऽत्मनेपदयोः प्रथमपुरुषे श्वस्तन्यां रूपस्य साम्येन तत्र नाऽऽत्मनेपदकृतो विशेषः प्रतिभासेतेति मध्यमपुरुषोदाहरणम् । 'न वृद्भयः ।४।४।५५। इती निषेध: आत्मनेपदे तु भवत्येवेट् । तत्र कृपः औदित्त्वेन "धूगौवि |४| ४ | ३ | इति विकल्पेनेट् परमिडभावपक्षीयरूपमिह न प्रदर्शितमनावश्यकत्वात् ।।४६।। क्रमोऽनुपर्सात् | ३ | ३|४७ | अविद्यमानोपसर्गात्क्रमतेः कर्त्तयत्मनेपदं वा स्यात् । क्रमते । क्रामति । अनुपसर्गादिति किम् ? अनुक्रामति ॥ ४७ ॥ क्रामतीति -- क्रमो दीर्घः परस्मै | ४ |२| १०६ । इति दीर्घः । वृत्त्यादेरन्यत्त्रायमारम्भः इत्यप्राप्तविभाषा । उत्तरसूत्रेण वृत्त्यादावात्मनेपदं विधीयते ||४|| वृत्तिसर्गतायने | ३ | ३ | ४८ | वृत्तिरप्रतिबन्धः, सर्ग उत्साहः, तायनं स्फीतता एतवृत्तेः क्रमः कर्त्तर्यात्मनेपदं स्यात् । शास्त्रेऽस्य क्रमते बुद्धिः । सूत्राय क्रमते । क्रमन्तेऽस्मिन्योगाः ॥४८॥ वेति निवृत्तम् । शास्त्रेऽस्य क्रमते बुद्धिरिति अप्रतिबन्धं प्रवर्तते इत्यर्थः । सूत्राय क्रमते - तदर्थमुत्सहते इत्यर्थः । क्रमन्तेऽस्मिन् योगा - अस्मिन् प्रकृतवर्णनीये यतौ योगाः चित्तवृत्तिविरोधार्थाः क्रिया ---
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy