SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ( ४४२ ) तोऽनुज्ञातः, भवतोऽवसरः कटकरणे ॥३१॥ स्मे पञ्चमी-। कृत्यानां सप्तम्याश्चापवादः। स्मशब्द: स्पष्टार्थक: ॥३१॥ अधीष्टौ ।।४।३२॥ स्मे उपपदे ऽध्येषणायां गम्यायां पञ्चमी स्यात् । अङ्ग स्म विद्वन्नणुव्रतानि रक्ष ॥३२॥ अधीष्टो०- ऊर्ध्व मौहूर्तिक इति निवृत्तम्, पृथग्योगात् । सप्तम्यपवादः । अहिंसासत्यास्तेब्रह्मचर्यापरिग्रहनामानि जैनश्रावकाणां देशतःपालनीयानि पञ्च व्रतानि अणुव्रतान्युच्यन्ते ॥३२॥ . . कालवेलासमो तुम्वाऽवसरे ॥१४॥३३॥ एखूपपदेष्वसरे गम्ये धातोस्तुम्वा स्यात्। कालोभोक्तम्। वेलाभोतुम् । समयो भोक्तुम् । पक्षे । कालो भोक्तव्यस्य । अवसर इति किम् । कालः पचति भूतानि ॥३३॥ कालवेला०-। कालो भोक्तव्यस्येति-अत्र प्रषा०' ।५।४।२९। इति तव्यः । कालः पचति भूतानीति-कथमिह न भवतीति चेद् । उच्यते-कालोऽत्र द्रव्यं न त्ववसर इति, यद्यप्यवसररूपोऽपि कालो द्रव्यमेव द्रव्यभिन्नस्यासत्त्वात्, तथापि स कालत्वेनैव सामान्येन निर्दिष्टो नावसरत्वेन-प्राप्तकालत्वेन इति न भवतीत्यवसरग्रहणस्य सार्थकम् ॥३३॥ सप्तमी यदि ॥४॥३४॥ यच्छब्दप्रयोगे कालादिषूपपदेषु सप्तमी स्यात् । कालो यवधीयोत भवान् । वेला यद्भुञ्जीत समयो यच्छयोत ॥३४॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy