________________
( ४४३ )
सप्तमी यदि० -। तुमोऽपवादः ॥३४।।
शक्तार्हे कृत्याश्च ।।४।३५॥ शक्तेऽहे च कर्तरि गम्ये कृत्याः सप्तमी च स्युः। भवता खलु भारो वाह्यः । उह्य त । भवान् भारं वहेत् । भवान् हि शक्तः। भवता खलु कन्या वोढव्या। उद्यते । भवान् खलु कन्यां वहेत् । भवानेतदहति ॥३५॥
शक्ताह-सप्तभ्या बाधो मा भूदिति कृत्य ग्रहणम् । बहुवचनमिहोत्तरत्र च यथासंख्यनिवृत्त्यर्थम् । भवता खलु भारो वाह्यः, उह्य तेति-'भवता' इत्यत्र कृत्यस्य कर्तरि 'कृत्यस्य वा' इति षष्ठीविकल्पनात् 'हेतु०' ।२।२।४४ इति तृतीया, खलुरवधारणादौ, वहीं प्रापणे' अतो यणि 'ञ्णिति'।३।३।५० इत्युपान्त्यवृद्धौ-वाह्यः, कर्मणि सप्तम्यां क्ये च 'यजादि०' ।४।१७। इति
वृति–उह्य त, एतदपेक्षया भवतेत्यत्र स्वतः कर्तरि तृतीया, प्रत्ययो 'तत्साप्या०।३।३।२१।इति कर्मणि। तैःकर्मणः उक्तत्वात्ततःप्रथमा विज्ञेया, उक्तार्थानामप्रयोग' इति हि न्यायः । इदं शक्तार्थे कर्मण्यु दाहृतम् । अधुना शक्तार्थे कर्तर्युदाहरति-भवान् भारं वहेदिति-अत्र 'कर्तरि सप्तमी, तथा च कर्तुरुक्तत्वात् 'भवान्' इत्यत्र प्रथमा, कर्मणोऽनुक्तत्वाच्च भारमित्यत्र द्वितीया । उक्तप्रयोगे शक्तार्थं संगमर्यात-भवान् हि शक्तः इति । क्रमप्राप्तेऽहंथ उदाहरति-भवता खल इत्यादिना ॥३५॥
णिन्चाऽवश्यकाधर्मण्ये ।।४।३६।
अनयोर्गम्ययोः कर्तरि वाच्ये णिन् कृत्याश्च स्युः। अवश्यंकारी। अवश्यंहारी । अवश्यांगेयो गीतस्य । शतंदायी । गेयो गाथानाम् ॥३६॥ अवश्यंभाव आवश्यकम् । ऋणेऽधमोऽधमणः, तस्य भाव