SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ( ४२२ ) बाहुलकाद्-भगमिति । 'केष हिंसायाम्' कषत्यस्मिन्निति--कषः-शाणः । आगत्य कषत्यस्मिन्निति-आकषः । निकषत्यस्मिन्निति--निकष:शाणः ॥१३१॥ व्यञ्जनाद् घन ॥५॥३॥१३२। व्यञ्जनान्ताद्धातोः पुन्नाम्नि करणाधारयोर्घ स्यात् । वेदः ॥१३२॥ व्यञ्जना०-घस्यापवादः । विदन्त्यनेन विन्दति विन्दते वा-वेदः, - अत्र. विग्रहवाक्ये क्रमेण 'विदक् ज्ञाने' 'विद्लुती लाभे' 'विदिप विचारणे' इति . धातुः ।।१३२॥ अवात्तृ स्तृभ्याम् ॥५॥३॥३३॥ आभ्यामवपूर्वाभ्यां करणाधारयोः पुन्नाम्नि घञ् स्यात् । अवतारः । अवस्तारः ॥१३३॥ अवात् । अवतरन्त्यनेनास्मिन् वेति-अवतारः, 'तृ प्लवन-तरणयोः, इति प्लवनं मज्जनम्, तरणमुल्लङ्घनम्, नद्यादीनामवतरणमार्गोऽवतारः । 'स्त गश् आच्छादने' अवस्तृणन्त्यनेनास्मिन्निति वा--अवस्तारो जवनिका तृ स्तृभ्यामिति द्विवचनं करणाधार इति यथासंस्यनिवृत्त्यर्थम् ।।१३३॥ न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् ।५।३।१३४॥ एते पुन्नाम्नि करणाधारयोर्घजन्ता निपात्यन्ते । न्यायः । अवायः। अध्यायः। उद्यावः । संहारः । अवहारः । आधारः। दाराः । जारः ॥१३४॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy