SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ( ४२१ ) पुन्नाम्निघः । छाद्यतेऽनेनेतिछदः, दन्तानां छदः दन्तच्छदः ओष्ठ इत्यर्थः । एत्य कुर्वन्त्यस्मिन्नित्याकर इति खनिरित्यर्थः विचीयतेऽनयेति-विचयनीतिस्त्रीना मेदमिति नास्य प्रवृत्तिः । ग्रहरणो दण्ड इति ह्रीयतेऽनेनेति योगार्थोऽत्र न संज्ञेति नास्य प्रवृत्तिः । घकारः 'एकोपसर्गस्य ० ' | ४|२|३४| इत्यत्र विशेषणार्थः ॥१३०|| गोचर संचर वहव्रजव्यजखलापणनिगमबकभगकषाकषनिकषम् ||५|३|१३१ ॥ एते करणाधारयोः पुन्नाम्ति धान्ता निपात्यन्ते । गोचरः । संचरः । वहः । व्रजः । व्यजः । खलः । आपणः । निगमः । बकः । बाहुलकावर्त्तरि भगः । बाहुलका गम् । कषः । आकषः । निकषः ॥ १३१ ॥ गोचर० - । गावश्चरन्ति अस्मिन्निति अस्मिन्निति - गोचरः । व्युत्पत्तिमात्रमिदम्, विषयस्य तु संज्ञा - ' अनेकान्तात्मक वस्तुगोचरः सर्वसंविदाम्' । संचरन्तेऽनेनेति-संचर इति कलेवरमित्यर्थः वहन्ति ते--नेति - त-वहःवृषस्कन्धदेशः । वृजन्त्यस्मिन्निति-ग्रजः गोसम्बन्धी समूहः । व्यजत्यनेनेतिव्यज इति निपातनाद्वभावाभाव:, व्यजः -- तालवृन्तमिति प्रतीयते । खलन्त्यस्मिन्निति--खलः -- दुर्जन इत्यर्थः । एत्य पणायन्त्यस्मिन्निति-आपणो - हट्ट इत्यर्थः, 'अशवि ० ' | ३ | ४ | ४ | इति विकल्पेन - यविधानादाया भावपक्षे रूपम् । निगच्छन्ति तत्रेति = निगम इति - नगरीत्यर्थः, निगमः पन्थाः, निगच्छत्यनेनेत्यभिघानचिन्तामणिः, निमच्छन्ति तत्र तेन वा निगमः पुटभेदनं शास्त्रं चेति पारायणम् । वक्तीति - बकः -- न्यङ्क्वादित्वात् कत्वं ववयोरैक्यं च ननु करणाधिकरणयोरस्मिन् सूत्रे निपातनं तथापि कथं कर्तरि वक्तीति वाक्यमिति चेत् ? अत्राह - बाहुलकात् कर्तरीति । भज्यतेऽनेनास्मिन् वा - भगः, 'भजीं सेवायाम्' इति धातुः, 'क्त' नि०' | ४|१|१११ ॥ इति जस्य गः, भज्यते आश्रीयतेऽनेन कृत्वा लोकै रालोक इति भगः सूर्यः, भज्यतेऽनेनास्मिन् वा भगः स्त्रीचिह्नम्, पुंसि क्लीबे चायम्, ननु घान्तस्य पुंस्त्वानुशासनात् कथं क्लीवत्वमित्याह
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy