________________
( ४१५ )
. चरितस्य कार्यस्यानुकरणमिति यावत् । 'कुशं प्राह्वानरोदनयो:' परस्परमाक्रोशनमित्यनेन त्र 'नित्यं त्रत्रिनोऽण' |५|३|५८ । इति स्वार्थेऽणि 'अत्र'०' | २|४| २० | इति ङ्यां च व्यावक्रोशी- अत्र 'य्वः' | ७|४|५| इत्का न भवति 'नत्रस्वाङ्गादेः | ७|४|| इति निषेधात् । परस्परमीहेति - व्यतीहा, ईक्षि दर्शने' परस्परमीक्षणं - व्यतीक्षा, उभयत्र 'क्त' टो० ' |५|३|१०६ | इति स्त्रियामप्रत्ययः ।। ११६ ।।
नञोऽनिः शापे | ५|३|११७ ।
नमः पराद्धातोः शापे गम्ये भावाकत्रः स्त्रियामनिः स्यात् । अजननिस्ते भूयात् । शाप इति किम् । अकृतिः पटस्य ॥११७॥
नत्रोऽनिः० – शापोऽनिष्टार्थाशंसनम् आकोश इति यावत् । 'जनैचि प्रादुभवे' प्रादुर्भाव उत्पत्तिः नञ्पूर्वादतोऽनेनानी- अजननिस्ते भूयादितिअयथाकारिणस्ते उत्पत्तिरेव मास्तु, उत्पन्नस्य वासत्त्वं भवतु येनानुत्पन्न इव प्रतीयेथाः । अकृतिः पटस्येति - अत्र 'नत्र ' ।३।१।५१ | इति समासः, नात्र शापोऽपि तु तत्त्वकथनमिति नास्य प्रवृत्तिः ।।११७।।
ग्लाहाज्यः | ५|३|११८ ।
एभ्यः स्त्रियां भावाकत्रो रनिः स्यात् । ग्लानिः । हानिः । ज्यानिः ॥ ११८ ॥
ग्ला०
- 'ग्लै हर्षक्षये' हर्षक्षयो धात्वपचयः, 'आत् सन्ध्यक्षरस्य' | ४|२|१| इत्यात्वेऽनेनानी - ग्लानिरिति - बलहीनते - त्यर्थः । 'ओहांक् त्यागे' – हानिरिति अपचयः । ' ज्यांश् हानौ'- ज्यानिरिति - अपचयः ॥ ११८ ॥
प्रश्नाख्याने वेञ ५|३ | ११६
प्रश्ने आख्याने च गम्ये स्त्रियां भावाकत्रों र्धातोरिव् वा स्यात् ।