________________
४१३ )
. उपसर्ग पूर्वादादन्तात् स्त्रियों भावाकओरङ् स्यात् : उपदा । उपसर्गादिति किम् । दत्तिः ॥११०॥ उपसर्गा-"डुदांगक दाने" उपपूर्वस्यास्य स्त्रियामहि 'इनपुसि' । ३६४ इत्याकारलोपे आपि च-उपदा । दत्तिरिति-अत्र 'दत्' ।४।४।१०। इति.. ददातेर्ददादेशः ।।११०॥
णिवेत्त्यासश्रन्यघट्टवन्देश्नः ॥५॥३॥१११॥ ण्यान्तावत्यादिभ्यश्च स्त्रियां भावाकोंरनः स्यात् । कारणा। वेदना । आसना । श्रन्थना । घट्टना । बन्दना ॥१११॥ णिवेत्त्यास०–'डुकृग् करणे' अतो णिगि वृद्धौ ‘कारि' इत्ययतोऽनेन स्त्रियामने 'णेरंनिटि' ।४।३।८३॥ इति णिलोपे ‘आत्' ।२।४।१८। इत्यापिकारणा। 'विदक ज्ञाने' अतोऽने उपान्त्यगुणे च-वेदना । 'आसिक उपवेशने' अतोऽने-आसना। 'श्रथुङ शैथिल्ये' शैथिल्यमगतढता, 'श्रन्थश मोहनप्रति हर्षयो' अनयोः-श्रन्थना। घट्टि चलने' अस्य-घट्टना । 'वदुङ् स्तुत्यभिवादनयोः' अस्य-वन्दना । वेत्तीति तिन्निर्देशो ज्ञानार्थपरिग्रहार्थः ॥१११॥
इषोऽनिच्छायाम् ।।३।११२। अनिच्छादिषेः स्त्रियां भावाकत्रो रनः स्यात् । अन्वेषणा । आनि छायामिति किम् । इष्टिः ॥११२॥ इषोनिच्छादार्थाद-नुपूर्बादनेन स्त्रियामने उपान्त्यमुणे आपि च-अन्वेषणा। . इष्टिरिति-'तवर्गस्य०' ।१।३।६०। इति षयोगे सकारस्थ टकारः ॥११२।।
पर्यधेवा ।।३।११३॥