________________
.. ( ४११ )
धातोरूदित्त्वात् 'ऊदितो वा' ।४।४।४२। इति. क्त वायां वेट्त्वम्, बेटत्वाच्च क्त परे 'वेटोऽपतः' ।४।४।६२। इतीटो निषेधात् ‘क्त टो०' ५।३।१०६। इत्यप्रत्ययो न प्राप्नोति, तत्र तट इत्युक्तत्वात्, तथा च 'अ' प्रत्ययविधानार्थमत्र शंसेरुपादानम् ।।१०।।
क्त टोगुरोर्व्यञ्जनात् ।।३।१०६॥ तस्येट यस्मात् ततो गुरुमतो व्यञ्जनान्ताद्धातो वाकत्रों: . स्त्रियामः स्यात् । ईहा। क्तेट इति किम् । स्रस्तिः । गुरोरिति किम् । स्फूतिः। व्यञ्जनादिति किम् । संशीतिः ॥६०६॥ क्तेटो०=। 'ईहि चेष्टायाम्' अतोऽनेन 'अ' प्रत्यये स्त्रियापि ईहा। स्रस्तिरितिस्रसूङ अवस्रसने' अस्योदित्त्वात् क्त वि वेट त्वेन 'वेटोऽपतः' ।४।४।६२। इति क्त इटो निषेधेन तऽनिटत्वादस्या-प्रवृत्त्या स्त्रियां तो 'नो व्यञ्जनस्या०' ।४।२।४५॥ इति नलोपे-स्रस्तिः। 'स्फुर्जा विस्मृतो' अस्यादित्त्वात् 'आदितः' ।४।४।७। इतीटो निषेधाद-निट्त्वमिति स्त्रियां क्तो 'राल्लुक' ।४।१।११०। इति छ्लोपे 'भ्वादे०' ।२।१।६३॥ इति दीर्घत्वे दिर्हस्वरः' ।१।३।३श इति द्वित्वे च स्फत्तिः । संशीलिरिति-- 'शीङक स्वप्ने' अत्र व्यञ्जनान्तत्वाभावादस्या प्रवृत्त्या स्त्रियां क्तो= संशीतिः १०शा
षितोऽङ् ।।३।१०। षितो धातोर्भावाकतो: स्त्रियामङ् स्यात् । पचा ॥१०॥ षितोऽङ =। 'डुपचीष् पाके' अस्य पित्त्वादनेन स्त्रियामङि आपि च= पचा। 'जष्च् जरसि' 'वर्णदृशोऽङि' ।४।३।७। इति गुणे-जरा। ॥ १०७॥
भिदादयः ।।३।१०८।