________________
. ( ४०७ )
जूतिः । ज्ञप्तिः । कोत्तिः ॥१४॥ साति--सातिरिति-'पिंग्ट् बन्धन' इत्यस्य इकारस्य, 'पिंग्ट अभिषवे' इत्यस्योकारस्य चात्वं निपात्यते, 'षोंच अन्तकर्मणि' अस्य ओकारस्य 'आत् सन्ध्यक्षरस्य' ।४।२।१। इत्यात्वे जाते तस्य 'दोसो' ।४।४।११॥इति इत्वे प्राप्ते तद भावश्च निपात्यते,तथा च त्रयाणामपि सातिरितिभवतीति भावः।हेतिरिति-हिंट गतिवृद्धयोः अस्य इकारस्य एकार:, 'हनंक हिंसाग' त्योः इत्यस्यान एकारो वा निपात्यते, तथा च द्वयोरपि हेतिरिति भवतीतिभावः । यूतिः,जूतिरिति-'युक् मिश्रणे' 'जुगतौ अनयोर्दीर्घत्वं निपात्यते इत्यर्थः । ज्ञप्तिरिति ='जाण' मारणादिनियोजनेषु' मारणादयो 'मारणतोषण०' ।४।२।३०। इति सूत्रोक्ताः; तेषु नियोजने चार्थे जानातिश्चु रादिः, चुरादित्वात् णिचि 'अति' ।५।२।२१। इति प्वागमे ‘मारण.' ।४।२।३०। इति ह्रस्वे ‘णेरनिटि' ।४।३।८३ इति णिलोपे च ज्ञप्तिः। 'कृ तण संशब्दने' संशब्दनं ख्यातिः, कृतः कीतिः' ।४।४।१२३। इति कीर्तादेशे णिचि क्तो णिलोपे च कीर्तिः । आभ्यां 'णिवेत्त्या०' ।५।३।१११। इति ण्यन्तलक्षणोऽनो न भवति निपातनात् ॥१४॥
गापापचो भावे ॥५॥३॥६५॥ एभ्यो भावेस्त्रियां क्तिः स्यात् ।सङ्गीतिः । प्रपीतिः । पक्तिः।१५। गापाo-। 'गा' शब्देन 'गै शब्दे' 'गांङ् गौ' इत्युभयो हणम्, गामादाग्रहणेष्वविशेषः' इति न्यायात्, 'गै' इत्यस्य 'आत् सन्ध्यक्षरस्य' ।४।२।१। इत्यात्वे. 'गा' इति भवनाश्च । आभ्यामनेन क्तौ 'ईर्व्यञ्जने०' ।४।३।८७। इत्याकारस्य ईत्वे-संगीतिरति । 'पा' इति गापचिसाहचर्यात पिबतेहणम्, पाधातोः प्राग्वदीत्त्वे-प्रपीतिरिति । 'डुपचीष् पाके' इति पचधातोश्चस्य 'चजः कगम्' ।२।१।८६। इति कत्वे पक्तिः । सामान्यविहितस्य क्त बधिक्स्य 'उपसर्गा०' ।५।३।११०। इति प्राप्तस्याङो बाधकोऽयं योगः, पचेस्तु'षितोऽङ् ।५।३।१०७। इत्यङ् प्राप्त इति तद्बाधकोऽप्ययंः योगः।६५।
स्थो वा ॥५॥३॥६६॥