________________
( ४०६ )
विशेष्यत्वं न सम्भवति, तस्यासत्त्वरूपत्वेन तस्य स्त्रियामवर्तनात्, तथा च पारिशेष्यात् प्रत्यय एवावशिष्यते, शब्दे चार्थस्य विशेषणत्वमयुक्तमिति तदर्थे विशेषणम्, एवं च स्त्रीत्वविशिष्टे भावेऽकतरि च कारके वाच्ये क्तिः प्रत्यय इति फलितम् पत्रादेरपवादः । कार इति-अत्र स्त्रीत्वाविवक्षणादस्याप्रवृत्या घत्र ॥९१॥
श्यादिभ्यः ।।३।६२। एभ्यो धातुभ्यो भावाकोः क्तिः स्यात् । श्रुतिः । प्रतिश्रुत् । संपत्तिः ।संपत् ।६२। श्यादिभ्य०-। वक्ष्यमाणैः क्विबादिभिः सह समावेशार्थ वचनम् । श्रट श्रवणे' अनेन स्त्रियां क्तौ कित्त्वाद् गुणाभावे-श्रुतिरिति, एवं सम्पदादिगणपाठात् 'कत्सम्पदादिभ्यः क्विप'।५।३।११४। इति क्विति 'हस्वस्य तः पित्कृतिः' ।४।४।११३। इति तागमे च प्रतिश्रुत् इति । 'षद्लु विशरणगत्यवशादनेषु' अतः क्तौ-संपत्तिः, क्विपि च-संपत् 'स्त्रीखलना अलो बाधकाः, स्त्रियाः खलनौ' इति न्यायेन विशिष्य विहिती खलनो परत्वादेनं बाधेते ॥१२॥
समिणासुगः ॥५॥३॥६३। संपूर्वादिण आपूर्वात्सुगश्च भावाकोः स्त्रियां क्तिः स्यात् । समितिः । आसुतिः ॥६३। समिणासुग०-। 'समज०' ५।३।६६। इत्यनेन सुग इणश्च क्यप विधास्यते, स क्ति बाधेतेति तद्वाधनायेदम् । ‘इंक गतौ'सम्पूर्वादतोऽनेन क्तौ-समितिः। 'पुग्ट अभिषवे' आङपूर्वादतोऽनेन क्तौ-आसुतिः ॥१३॥
सातिहेतियूति जूतिज्ञप्तिकोत्तिः ।५।२।६४॥ एते भाराकोः क्त्यन्ता निपात्यन्ते । सातिः । हेतिः । यूतिः ।