________________
( ४०४ )
एभ्यो भावाकत्रों नः स्यात् । यज्ञः । स्वप्नः । रक्ष्णः । यत्नः । प्रश्नः ॥८॥ यजि०-। 'यजी देतपूजासंगतिकरणदानेषु' अतो ने 'तवर्गस्य०' १।३।६०। इति नस्य को ज्ञयोज इति ज्ञे-यज्ञ इति । 'प्रछंत् ज्ञीप्सायाम्' ज्ञीप्साजिज्ञासा, अतो ने 'अनुनासिके०' ४।१।१०८। इति छस्य शे ‘न शात्' ।१।३।६२। इति निषेधे–प्रश्नः ॥६५॥
विच्छो नङ् ।।३।८६॥ विच्छे वाकत्रों नङ् स्यात् । विश्नः ॥८६॥ विच्छो नङ् । 'विछत् गतौ' अतो नङि 'अनुनासिके०' ।४।१।१०८॥ इति छस्य शे=विश्नः, प्राग्वत् अप्रतिषेधः ॥८६॥
उपसर्गादः किः ।।३।८७। उपसर्गपूर्वाद्दासंज्ञात् भावाकों: किः स्यात् । आदि:, निधिः । ॥ ८७॥ उपसर्गा० । 'धातोः०' ।३।१६। इति प्रादेरूपसर्गसंज्ञा प्राग विहिता। 'अवी०' ।३।३।५। इत्यनेन ‘दादाने' 'देङ् पालने' 'डुदांगक दाने' दोंच छेदने' ट्धे पाने' 'डुधांगक धारणे च' इति षण्णां दासंज्ञा विहिता। दारूपाद् दासंज्ञकात् सोपसर्गादनेन को 'इडेत् पुसि०' ।४।३।६४। इत्याक्रारलोपे च=निधिः ।।७।।
व्याप्यादाधारे ।।३।८। व्याप्यात् पराद्दासंज्ञादाधारे किः स्यात् । जलधिः ॥८॥