________________
( ४०२ )
किम् । शूकरनिचयः ॥८॥ संघेऽनर्व-अनज़शब्दस्य संघेन सह सामानाधिकरण्यं प्रकटयति-नास्ति कुतश्चिदित्यादि इति-समुदायान्तर्गतवस्तूनामूधिोभावो यत्र भवेत् तादृशः संघो वाच्य इति तात्पर्यम् । संघशब्दः प्राणिसमुदायपर इत्याहप्राणिसमुदायेऽर्थ इति । तार्किकनिकाय इति तार्किकाणां समुदाय इत्यर्थः । पदकृत्यं पृच्छति-संघ इति किमिति-प्राणिसमुदायवाचकसंघशब्दमपहाय समूदायमात्रवाचकः कश्चित् शब्दो ग्राह्यः सूत्र इति प्रश्नः, अनदर्ध्वपदस्य बहुव्रीहित्वेन विगृहीतत्वादन्यः पदार्थः कश्चित् शब्दो ग्राह्य एवेति संघशब्दस्थानीयशब्दान्तराभावेऽवाचकत्वमेव सूत्रस्य स्यात् 'उत्तरयतिसार समुश्चय इति-सारादिपदं न प्राणिपरमपि तु प्राण्यप्राणिसाधारणधर्मविशेषपरमेवेति तत्समुदाये वाच्येऽस्याप्रवृत्त्या इवर्णान्तलक्षणोऽलेव भवतीति भावः । पुनः पृच्छति–अनवं इति किमिति, उत्तरयति-सूकरनिचय इति–नात्रोवधिोभावाभाव इत्यलेवेत्यर्थः, ननु कमिहोधिोभाव इति चेत् ? उच्यते-सूकरा स्वत एवैकस्योपर्येक इति क्रमेणाल्पस्थान एव शतशस्तिष्ठन्तीति तेषां स्वभावः, एवं चोपसमाधानार्थादप्ययं भिन्न इति उपयु परिभावमात्रेणोपसमाधानार्थे पूर्वेणापि घत्र । यं उपासमाधानार्थादस्य भिन्नत्वमित्थं समर्थनीयम्-उपसमाधानमुपयुपरिराशिकरणमिति केनापि यदि ते राशीभवनाय प्रेरिताः स्युग्थवा वलात्कृता स्युस्तदैवात्रोपसमाधानार्थत्वम्, न च तथेत्यस्योपसमाधानार्थाद्भिन्नत्वम् ।।८।।
माने ।।३।८१॥
माने गम्ये धातोर्भावाकोंर्घस्यात् । एको निष्पावः । समित्संग्राहः । मान इति किम् । निश्चयः ॥८१॥
माने-। मानमियत्ता, साच द्वधा-संख्या परिमाणं च । 'पूङ पवने' 'पूगश् पवने'–एको निष्पावः, एकपदोपानमियत्ताज्ञापनार्थम् । ग्रहीश् उपादाने'-समित्संग्राहः-मुष्टिरित्यर्थः । निश्चय इति-मानार्थाभावादस्या- . प्रवृत्त्येवर्णान्तलक्षणोऽलेव भवति । अल एवापवादो योगः, क्त्यादिभिस्तु बाध्यते, घत्रपि 'मध्येऽपवादा: पूर्वान् विधीन् बाधन्ते नोत्तरान्'