________________
( ४०१ )
अस्तेय एवेति, तेन पुष्पायां हस्तेन प्रचयं करोति चौर इत्यत्र 'माने' ||३|| इत्यनेनापि घञ न भवति ॥ ७८ ॥
.
चिति देहावासोपसमाधाने कश्चादेः | ५|३|७८ ।
एष्वर्थेषु चेर्भावाकर्घञ्स्यात् तद्योगे च चेरादेः कः । चीयत इति चितिः यज्ञेऽग्निविशेषस्तदाधारो वा । आकायमग्नि चिन्वीत । कायो देहः । ऋषिनिकायः । उपसमाधानमुपर्युपरि राशीकरण. ए. म् गोमय निकायः ॥७६॥
चिति० - इह ग्राह्यं चितिशब्दार्थमाह- चीयते इति चितियंज्ञ ेऽग्निविशेषः सिति कर्मणि प्रत्यय इति भावः । पक्षान्तरमाह - तदाधारो देतिअग्निविशेषस्याधारभूतं कुण्डमिह वाच्यमित्यर्थः तथा चाधिकरणे घत्रिति भाव: आकायमपि चिन्वीतेति - यज्ञीयमग्निविशेषं चयनेन सम्पादयेदित्यर्थः, अधिकरणे प्रत्ययविधाने तु आधारभूतस्याकायस्य चिनोतेर्योगे नुक्त' कर्म बोध्यम्, अथवा चिनोतेर्द्विकर्मकत्व स्वीकारादुभे अपि कर्मणी एव, तथा चाचीयतेऽग्निरस्मिन् अथवा आचीयन्ते इष्टका अस्मिन्निति = आकायोऽग्निस्थापनस्थलविशेषः, तमग्नि च चयनेन सम्पादयेदित्यर्थः । देहे उदाहरति-कांय:, तदर्थमाह- देह इति । आवासे उद हरति ऋषिनिकाय इति ऋषीणामावास इत्यर्थः । उपसमाधानशब्दार्थमाह - उपसमाधानमुपर्युपरि राशिकरणमिति । उपसमाधाने उदाहरति- गोमय निकाय इति - गोमयस्यो - पर्युपरि राशिकरणमित्यर्थः । 'चः के इत्येव सिद्ध आदिग्रहणमादेरेव यथा स्यात् तेन चेर्यङ्लु-िनिकेचाय इत्येव भवति ॥७६॥
"
सङ्घेऽनूर्ध्वं । ५।३।८० ।
नास्ति कुतश्चिदूर्ध्वमुपरि किञ्चिद्यस्मिन् सोऽनूर्वः, तस्मिन् प्राणिसमुदाये Sr भावाकर्शोर्घञ् स्यात्, तद्योगे चादेः कः । ताकि कनिकायः । सङ्घ इति किम् । सारसमुच्चयः । अनूद्ध इति