________________
. ( ३६६ )
नीवारा बीहयः ॥७४॥ मैवु:-निवियन्ते इति-नीवारा नाम व्रीय इति-'घञ्युपसर्गः' ।३।२।८६। इति दीर्घत्वम् ॥७४॥
इणोऽभषे शिश स्थितेरचलनमभ्रषः, तद्विषयार्थात् निपूर्वादिणो भावाकोंर्घन स्यात् । न्यायः । अभ्रष इति किम् । न्ययं गतश्वीरः ॥७॥ इणो-अभ्रषशब्दं व्याचष्टे-स्थितेरचलनमभ्रषः इति-स्थितिलॊकमर्यादा तस्या अचलनं तदपरित्यागोऽभ्रष इत्यर्थः, भ्रषग् चलने 'च' चकाराद् भये, अतो घत्रि भ्रषणं भ्रषः न भ्रषः-अभ्रषः ! शास्त्रलोकप्रसिद्धयादिना नियतमयनमिति इक गतो' निपूर्वादतो पनि वृद्धौ आयादेशे इकारस्य च यादेशे न्यायः । न्ययं गतश्चौर इति-अत्रेवर्णान्तलक्षणेऽलि गुणेऽयादेशे च न्यय इति, न्ययो नाशस्तं प्राप्त इत्यर्थः । निकृष्टमयनं गतिरिति व्युत्पत्त्या न्ययशब्दः नाशे मृत्यावेवेति ॥७५।।
परेः क्रमे ५७६ कमः परिपाटिः, तद्विषयार्थात्परिपूर्वादिणो भावाकोंर्घस्यात् । तव पर्यायो भोक्तम् । क्रम इति किम् । पर्ययो गुरोः ॥७॥ परेः कमे-'क्रम पादविक्ष पे' अतो घत्रि 'मोऽकमि०' ।४।३॥५५॥ इति वृद्धिनिषेधे च-क्रमः । तव पर्यायो भोक्त मिति-क्रमेण पदार्थानां क्रियासम्बन्धः पर्यायः, क्रियाऽत्र मोजनम्, भोक्तारः पदार्थभूताः, क्रमेण नियतपूर्वापरीभावेन भोजनक्रियया सह सम्बन्धात् क्रमत्वं स्पष्टमिति भावः । पर्ययो गुरोरिति-अत्र क्रमविषयत्याभावान्न भवति प्रत्यय इति भावः ॥७६।।
व्युपाच्छीङः ।।३।।