SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ प्रणय इति-अत्रालेव, 'अदुरुपसर्गा०' ।।३७७। इति नकारस्य णकारः ॥६०॥ वोदः ॥५॥३॥६१॥ उत्पूर्वान्नियो भावाकोंर्घञ् स्यात् वा । उन्नायः । उन्नयः ।६१। वोदः । पूर्वसूत्रतो वाशब्दानुवृत्त्या विकल्पे सिद्वेऽत्र वाग्रहणं किमर्थमिति चेत् ? उच्यते इदमेव वाग्रहणं ज्ञापयति--यद्--यत्र नवा शब्दोपादानं तत एव विकल्पानुवत्तिर्न तु वाशब्दोपादाने, तथा च पूर्वसूत्रतो वाशब्दानुवृत्त्यसम्भवादन वाशब्दोपादानं सार्थकम् । अनेन घत्रि पक्षे इवर्णान्तलक्षणेऽलि च--उन्नायः, उन्नयः ॥६१।। अवात् ।।३।६२॥ अवपूर्वान्नियो भावाकोंर्घञ् स्यात् । अवनायः ॥६२॥ अवात-"अनेन घत्रि-अवनाय इति ॥६॥ परेद्य ते ।।३।६३॥ परिपून्नियो द्यूतविषयार्थाद्धावाकोंर्घ स्यात् । परिणायेन शारीन हन्ति । द्यूत इति किम् । परिणयोऽस्याः ॥६३॥ परिणायेनेति-समन्तान्नयनेनेत्यर्थः । परिणयोऽस्या इति परिणयो विवाहः, 'युवर्ण०' ।।३।२६। इति नित्यमल् ॥६३।। भुवोऽवज्ञाने वा ।।३।६४। परिपूर्वा भुवोऽवज्ञानार्थात भावाकोंर्घञ् स्यात् वा। परिभावः ।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy